________________
भव्यमार्गणा ] न्यायप्रकाशसमलङ्कृते
.: २९३ : अथ भव्यमार्गणाभेदमाह
भव्याभव्यभेदेन द्विविधा भव्यमार्गणाः । तत्र भव्यस्सिद्धिगमनयोग्यस्तद्विपरीतोऽभव्यः॥
भव्येति । प्रतिपक्षतयाऽत्रामव्यस्यापि ग्रहणम् । अनादिपारिणामिकभव्यत्वाभव्यत्वयोगाजीवो भव्योऽभव्यश्च भवति । ननु भव्यत्वमभव्यत्वं वा जीवे कथमवगम्यत इति 5 चेदुच्यते सिद्धिगमनयोग्योऽहं नवेति संशय एव तत्साधकः, स च संशयोऽभव्यस्य न कदाचिदपि भवति । तथा चायं भव्यस्सिद्धिगमनयोग्यत्वप्रकारकसंशयान्यथानुपपत्तेरित्यनुमानमेव मानम् । मोक्षप्रवृत्तियोग्यतावच्छेदकतया च भव्यत्वं सिद्ध्यति, तत्र योग्यतागमकसंशय एव । संसार्यकस्वभावत्वे च कदाचिदपि कस्यचिदपि मोक्षार्थ प्रवृत्तिरेव न स्यात् । न च मोक्षप्रवृत्तियोग्यतावच्छेदकत्वं शमादिमत्त्वस्यैवेति वाच्यम् , शमादेर्मोक्षप्रवृत्त्युत्तर- 10 कालीनत्वात् , शमादेरपि कार्यतया तत्र भव्यत्वस्यैव कारणतावच्छेदकत्वप्रसङ्गे मोक्षप्रवृत्तियोग्यताया एवावच्छेदकत्वस्यौचित्याच । तथा च भव्यत्वमभव्यत्वञ्च परोक्षज्ञानिनामस्माहशामनुमानगम्यं प्रत्यक्षज्ञानिनाश्च प्रत्यक्षं तथाऽनादिसिद्धम् । ननु भव्यत्वमभव्यत्वश्च न नारकत्वादिवत्कर्मकृतं किन्तु चेतनत्वादिवत्स्वाभाविकमुच्यते तथा सति भव्यत्वमविनाशि स्यात् , जीवत्ववत् स्वाभाविकत्वात् , न चैतदिष्टं, तत्सत्त्वे निर्वाणाभावात् , सिद्धो न भव्यो 15 नाप्यभव्य इति वचनादिति चेन्न, प्रागभावस्यानादिस्वभावत्वेऽपि घटोत्पत्तौ विनाशदर्शनात् । एवं भव्यत्वस्यापि सम्यग्दर्शनज्ञानचारित्रोपायतो नाशसम्भवे क्षत्यभावात् । न च प्रागभावस्याभावरूपतयाऽवस्तुत्वमिति न तस्योदाहरणत्वं युक्तमिति वाच्यम् , तस्य घटानुत्पत्तिविशिष्टतत्कारणभूतानादिकालप्रवृत्तपुद्गलसंघातरूपत्वेन भावत्वात् । न चैवं सति स्तोकस्तोकाकृष्यमाणधान्यस्य धान्यपूर्णकोष्ठागारस्य कदाचित्समुच्छेद इव षण्मासषण्मास- 20 पर्यन्ते भव्यस्यैकस्यावश्यं सिद्धिगमनात् क्रमेणापचीयमानस्य सर्वस्यापि भव्यराशेः कदाचिदुच्छेदप्रसङ्ग इति वाच्यम् , अनन्तत्वाद्भव्यराशेरनागतकालाकाशवत् । इह यद्बहदनन्त. केनानन्तकं तत्स्तोकस्तोकतयाऽपचीयमानमपि नोच्छिद्यते, यथा प्रतिसमयं वर्तमानतापत्त्याऽपचीयमानोऽप्यनागतकालसमयराशिः प्रतिसमयं बुद्ध्या प्रदेशापहारेणापचीयमानस्सर्वनभःप्रदेशराशिर्वा तथा भव्यराशिरपि । यस्माच्चातीतानागतकालौ तुल्यावेवं यश्चातीतेनानन्ते- 25 नापि कालेनैक एव निगोदानन्ततमो भागोऽद्यापि भव्यानां सिद्धः, एष्यतापि कालेन तावन्मात्र एव भव्यानन्तभागस्सिद्धि गच्छन् युक्तो न हीनाधिकः, भविष्यतोऽपि कालस्याती
१. सर्वकालीनापेक्षयाऽत्र तुल्यत्वमुक्तं नतु विवक्षितकालापेक्षयैवेति भावः ॥