________________
: २९२: तत्त्वन्यायविभाकरे
[ दशमकिरणे अल्पेति । कायमनोवाग्भिरनुत्सित्तोऽचपलोऽमायी अकुतूहल: विनीतविनयः दान्तस्स्वाध्यायादिव्यापारवान् विहितशास्त्रोपचारः अभिरुचितधर्मानुष्ठानोऽङ्गीकृतव्रतादिनिर्वाहकः पापभीरुर्हितैषकः परोपकारचेता हिंसाद्यनाश्रवस्तेजोलेश्यायां परिणमेत् । दृष्टान्तमाह यथेति ॥
पद्मलेश्यामाह
ईषत्क्लेशप्रदानेन फलग्रहणाध्यवसायः पद्मलेश्या । यथा वृक्षात्फलमात्रवियोजनाध्यवसायः॥
ईषदिति । अतीवाल्पक्रोधमानमायालोभः प्रशान्तचित्तो दान्तः स्वाध्यायादिप्रवृत्तो विहितशास्रोपचारः प्रतनुभाषक उपशान्तो वशीकृताक्षः पद्मलेश्यायां परिणमेत् । दृष्टान्त10 माह यथेति ॥
शुक्ललेश्यामाह
इतरक्लेशाकरणतः फलग्रहणाध्यवसायश्शुक्ललेश्या । यथा भूपतितफलग्रहणाध्यवसायः॥
इतरेति । प्रशान्तचित्तो दान्तात्मा धर्मशुक्लध्यानध्यायी समितो गुप्तस्सरागो वीतरागो 15 वा जितेन्द्रियश्शुक्ललेश्यायां परिणमेत् । दृष्टान्तमाह यथेति । इह शुभलेश्यासु केषाश्चि
द्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुक्त्यम् । पूर्वपूर्वापेक्षयोत्तरोत्तरस्य विशुद्धितः प्रकृष्टत्वञ्च भावनीयम् । विशिष्टलेश्यापेक्षयैवं कारणविधानान्न देवादिभिर्व्यभिचारः। सर्वासामेव द्रव्यलेश्यानां अनन्तप्रदेशात्मकत्वं, असंख्यप्रदेशावगाढत्वञ्च विज्ञे
यम् । आद्या स्तिस्रोऽप्रशस्तवर्णगन्धरसोपेता अप्रशस्ताध्यवसायहेतवः संक्लिष्टातरौद्रध्याना20 नुगताध्यवसायस्थानहेतवः, उत्तरास्तिस्रः प्रशस्तवर्णगन्धरसोपेताः प्रशस्ताध्यवसायहेतवोऽ
संक्लिष्टधर्मशुक्लध्यानानुगताध्यवसायहेतवश्च ॥
१. जघन्या स्थितिर्मुहूर्तार्धम् , उत्कृष्टा तु पल्योपमासंख्येयभागाधिके द्वे सागरोपमे । ईशानापेक्षयेयं बोध्या ॥ २. मुहूर्त्ताध जघन्या स्थितिः, उत्कृष्टा तु मुहूर्त्ताधिकानि दशसागरोपमाणि ब्रह्मदेवलोकापेक्षयेयम् ॥ ३. मुहद्ध जघन्या स्थितिः त्रयस्त्रिंशत्सागरोपमाणि मुहूर्त्ताधिकान्युत्कृष्टा अनुत्तरापेक्षयेयम् ॥ ४. अनन्तप्रदेशव्यतिरेकेण स्कन्धस्य जीवग्रहणयोग्यत्वाभावादिति भावः ॥ ५. अनन्तानामपि वर्गणानामाधारभूताकाशप्रदेशा असंख्येया एव, सकलस्यापि लोकस्य प्रदेशानामसंख्यातत्वादिति भावः ॥