SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ लेश्याविशेषाः । न्यायप्रकाशसमलङ्कृते :२९१ : द्वारा तत्स्वरूपाणि प्रदर्शितानि । पञ्चाश्रवप्रमत्तो मनोगुप्त्यादिरहितः पृथ्वीकायादिषु तदुपमर्दकत्वादेरविरतः तीव्रसावद्यव्यापारपरिणतो गुणदोषपर्यालोचनारहितोऽत्यन्तमैहिकामुष्मिकापायशंकाविकलो नृशंसोऽनिगृहीतेन्द्रियो जीवः कृष्णलेश्यायामेव परिणमेदिति भावः । संक्लेशमेवोदाहरणेनाविष्करोति यथेति ॥ नीललेश्यां स्वरूपयति अल्पप्रयोजनाय तदंशच्छेदनाध्यवसायो नीललेश्या । यथा फलाय शाखाच्छेदाध्यवसायः॥ अल्पेति । कृष्णलेश्यापेक्षयात्र विशुद्धिमुत्तरलेश्यापेक्षया च संक्लेशं सूचयति तदंशच्छेदनाध्यवसाय इति । ईर्ष्यामर्षातपोऽविद्यामायानिर्लज्जताविषयाभिकाङ्क्षाप्रद्वेषयुतः प्रमत्तो रसलोलुपः सुखगवेषकः प्राण्युपमर्दनेनाविरतः साहसिको जीवो नीललेश्यायामेव परिण- 10 मंतीति भावः । तत्रानुरूपं दृष्टान्तमाह यथेति ।। कापोतलेश्यां स्वरूपयति अल्पफलार्थ तदंशांशच्छेदनाध्यवसायः कापोतलेश्या । यथा तदर्थ प्रतिशाखाच्छेदाध्यवसायः॥ ____ अल्पफलार्थमिति । अत्रापि विशुद्ध्यविशुद्धी पूर्ववत् । वचसा वक्रः क्रियया चक्रसमा- 15 चारो मनसा निकृतिमाननृजुकः स्वदोषप्रच्छादकश्छली मिथ्यादृष्टिरनार्य उत्प्रासकदुष्टवादी चौरः परसम्पदाऽसहनो लुब्धः कापोतलेश्यायां परिणमतीति भावः। तत्र दृष्टान्तमाह यथेति ॥ तेजोलेश्यां स्वरूपयतिअल्पफलार्थमंशांशापेक्षया न्यूनांशच्छेदनाध्यवसायः तेजोलेश्या ।। - 20 यथा फलग्रहणाय स्तबकच्छेदनाध्यवसायः ॥ .. ... १. लक्षणन्तु पञ्चाश्रवप्रमत्तत्वादिरेव इतरेषां भावकृष्णलेश्यासद्भावस्योपदर्शकत्वात् , यो . हि यत्सद्भाव एव भवति स तस्य लक्षणं यथौष्ण्यमग्नेः । अस्या जघन्या स्थितिर्मुहूर्तार्धम् , अन्तर्मुहूर्त्ताधिकानिः त्रयस्त्रिंशत्सागरोपमाणि स्थितिरुत्कृष्टा भवति । सप्तमनारकापेक्षयेयं बोध्या ॥ २. स्थितिश्चास्या जघन्या मुहूर्तार्धम् उत्कर्षेण, पल्योपमासंख्येयभागाधिकानि दशसागरोपमाणि धूम्रप्रभोपरितनप्रस्तरापेक्षयेयम् ॥३. स्थितिघन्या मुहर्ताधम् पस्योपमासंख्ययभागाधिकानि त्रीणि सागरोपमाण्युत्कृष्टा वालुकाप्रमोपरितनप्रस्तरनारकापेक्षया ।
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy