________________
तरवम्यायविभाकरे
[ दशमकिरणे संश्लिष्टतासम्बन्धेन भवति । एतादृशसम्बन्धाभावादेव जायमानत्वाञ्चक्षुर्दर्शनस्य पृथगुक्तिः, इतरेन्द्रियाणां प्राप्यकारित्वात् । मनसस्त्वप्राप्यकारित्वेऽपि प्राप्यकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वादचक्षुर्दर्शनान्तर्गतं तद्वोद्धव्यम् । अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्यावधिदर्शनं सर्वरूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु शास्त्रेऽव5 घेरुत्कृष्टतोऽप्येकवस्तुगतसंख्येयासंख्येयान्यतरपर्यायविषयत्वस्यैवोक्तत्वात्। जघन्यतस्तु रूपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्यायास्तस्य विषयाः । ननु पर्याया विशेषा उच्यन्ते न च दर्शनं विशेषविषयं भवितुमर्हति ज्ञानस्यैव तद्विषयत्वात् , तत्कथमवधिदर्शनविषयाः पर्याया भवितुमर्हन्तीति चेत्सत्यं, केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मंदादिसामान्यमेव तथाविशिष्यते पुनस्ते नैकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतस्सामान्यं गुणीभूतास्तु विशेषा अप्यस्य 10 विषयीभवन्तीति । केवलदर्शनिनस्तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्ती
मूर्तेषु सर्वपर्यायेषु च सकलदृश्यविषयत्वेन परिपूर्णात्मकं केवलदर्शनं भवति । मनःपर्यवज्ञानन्तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृहृदुत्पद्यते न सामान्यम् , अतस्तदर्शनं नोक्तम् ॥
सम्प्रति लेश्यामार्गणाभेदमाख्याति15 कृष्णनीलकापोततेजःपद्मशुक्लभेदेन षड् लेश्यामार्गणाः ।।
कृष्णेति । लिश्यते प्राणी कर्मणा यया सा लेश्या, कृष्णादिद्रव्यसहकारबलेनात्मनः परिणामविशेषः । अत्र विशेषतो यद्वक्तव्यं तत्पूर्वमेवादर्शितम् ।।
लेश्यानां स्वरूपाण्यादर्शयितुमुपक्रमते
अल्पफलाय फलिन आमूलं विनाशकरणाध्यवसायः कृष्णलेश्या । 20 यथा फलग्रहणार्थं वृक्षच्छेदाध्यवसायः ॥
अल्पेति । भावलेश्या द्विधा विशुद्धाविशुद्धभेदात् , अकलुषद्रव्यसम्पर्कजन्यात्मपरिणामो विशुद्धलेश्या । कलुषद्रव्यसम्पर्कजन्यात्मपरिणामोऽविशुद्धलेश्या । विशुद्धा कषायाणां क्षयेणोपशमेन च जायत इति द्विधा, अविशुद्धापि रागविषया द्वेषविषया चेति द्विधा,
तेजःपनशुक्ला विशुद्धलेश्याः कृष्णनीलकापोता अविशुद्धलेश्याः। तेजआदीनां विशुद्धलेश्या25 त्वमेकान्तविशुद्धिमाश्रित्योक्तं तेन तेजःपद्मशुक्लानां क्षायोपशमिकत्वेऽपि न क्षतिः । आसां
लक्षणानि तु तत्तद्र्व्यसाचिव्यजनिताध्यवसाया एव । मूले तु संक्लेशविशोधिपरिणामप्रदर्शन