________________
एसवमार्गणा ]
न्यायप्रकाशसमलङ्कृते अत एव मत्यज्ञानादयो विपर्यया न सन्ति तस्मात्पञ्चविधत्वमेव ज्ञानानां तन्मतेनेति भावः । नैगमादिनयेन तु मत्यज्ञानादीनामप्यर्थपरिच्छेदकत्वेन ज्ञानत्वात्तन्मताश्रयेणात्र ज्ञानानामष्टविधत्वमुक्तमित्याशयेनाहान्वेषणाप्रस्ताव इति । आद्यत्रयेति मतिश्रुतावधीत्यर्थः । ज्ञानत्वेन ग्रहणादिति, अर्थपरिच्छेदित्वादिति भावः । ननु ज्ञानादिषु किमर्थमज्ञानादिविपरीतग्रहणमिति चेदुच्यते चतुर्दशस्वपि मार्गणास्थानेषु प्रत्येकं सर्वसांसारिकसत्त्वसंग्रहार्थमिती 5 त्याशयेन बोध्यमित्युक्तम् । मनःपर्यवकेवलयोर्विपरीतताऽस्ति नवेत्यत्राह मन इति । निर्मूलतो मिथ्यात्वस्य क्षयेण केवलस्य क्षयोपशमोपशमाभ्याश्च मनःपर्यवस्य जायमानत्वादिति भावः । विपरीतानामपि मार्गणासु ग्रहणमन्यत्राप्यतिदिशति अग्र इति वक्ष्यमाणासु मार्गणास्वित्यर्थः, कासु मार्गणास्वित्यत्राह संयमादिष्वपीति, आदिना भव्यसम्यक्त्वाहारकाणां ग्रहणम् । एवमेवेति, ज्ञानमार्गणायामुक्तप्रकारेणैवेत्यर्थः, वैपरीत्येनेति, तत्तद्विप 10 रीतघटिता इत्यर्थः ॥
अथ चारित्रमार्गणाभेदमाचष्टे
सामायिकछेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातदेशविरत्यविरतिरूपास्सप्त चारित्रमार्गणाः॥
सामायिकेति । निरूपितानि पूर्वमेवैतानि पञ्च चारित्राणि लक्षणभेदद्वारैः । देशविर- 15 तिस्तु सावद्ययोगस्यैकादिव्रतविषये स्थूलसावद्ययोगादौ विरतिविशिष्टं चारित्रम् । पश्चाणुव्रतानि त्रीणि गुणव्रतानि चत्वारि शिक्षापदव्रतानीति द्वादशप्रकारा देशविरतस्य भवन्ति, एषां विस्तरस्तु अन्यत्र विलोकनीयः । चारित्रविपरीताऽविरतिर्मागणोपयोगित्वात्संगृहीता ॥
दर्शनमार्गणाभेदमाहचक्षुरचक्षुरवधिकेवलभेदेन चतस्रो दर्शनमार्गणाः ॥
चक्षुरिति । दर्शनावरणक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनं । इन्द्रियावरणक्षयोपशमाद्रव्येन्द्रियानुपघाताच्च चक्षुदर्शनलब्धिमतो जीवस्य घटादिषु चाक्षुषं दर्शनं चक्षुर्दर्शनम् । सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं तत्सामान्यविशेषयोः कथंचिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् । ' निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते' इत्यभिधानात् । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, 25 अचक्षुर्दर्शन मिन्द्रियावरणक्षयोपशमाद्रव्येन्द्रियानुपघाताचाचक्षुदर्शनलब्धिमतो जीवस्य विषय
20