SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ तस्वन्यायविभाकरे [पशमकिरणे भेदाः, ते च प्रवचनोपदर्शितपरिस्थूलनिमित्तभेदतः पञ्चसंख्याः, तदपेक्षमावारकमपि पश्चधेति न विरुद्ध्यते । न चैवमात्मस्वभावभूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकास्ततः कथं ते तथारूपक्षयोपशमाभावे भवि तुमर्हन्ति, नहि सूर्यस्य घनपटलावृतस्य मन्दः प्रकाशः कटकुड्याद्यावरणविवरभेदोपाधिस. 5 म्पादितस्सकलघनपटलकटकुड्याद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति । यथा वा जन्मादयो भावा जीवस्यात्मभूता अपि कर्मोपाधिसम्पादितसत्ताकत्वात्तदभावे न सन्ति तद्वन्मत्यादयो भेदा जीवस्यात्मभूता अपि मतिज्ञानावरणादिक्षयोपशमसापेक्षत्वात्तदभावे केवलिनो न भवन्ति ततो नासर्वज्ञत्वदोषः । यदपि मतिज्ञानादिविषयस्य केवलज्ञानाविषय त्वेऽसर्वज्ञत्वापत्तिरुक्ता सापि न सम्भवति, तद्विषयत्वेन तस्याग्रहेऽपि केवलज्ञानेन तद्ब्रह10 णात्,मत्यादिज्ञानमात्रनिरूपितत्वेन ज्ञेयताया केवलज्ञानस्याभावेऽपि न तावताऽसर्वज्ञत्वापत्तिः, अल्पास्पष्टज्ञानाभावमात्रेण सर्वज्ञत्वाक्षतेः, कापईिकमात्रधनाभाववतो महर्द्धिकस्य निर्धनित्वाभाववदिति दिक् ॥ मत्यादिज्ञानलक्षणादीन्यग्रे वक्ष्यन्ते ॥ ननु किं सर्वेषामेव जीवानां ज्ञानानि मत्यादीनि भवन्तीत्यत्राह मिथ्यादृष्टीनामिति । मिथ्यादृष्टीनां मतिज्ञानं श्रुतज्ञानम वधिज्ञानश्च मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमित्युच्यते विपर्ययत्वात् , प्रमाणाभासत्वेन तेषां 15 ज्ञानान्यज्ञानानि, दर्शनमोहनीयोदयप्रयुक्तमिथ्यादर्शनपरिणामेन सह वृत्तित्वान्मतिश्रुताव धयोऽज्ञानत्वं भजन्ते । ननु यथार्थपरिच्छेदित्वं ज्ञानत्वमयथार्थपरिच्छेदित्वमज्ञानत्वं तदुभयं च मिथोविरोधि, शीतोष्णवत् तत्कथमेकस्मिन्नेव मतिज्ञानादौ तदुभयसम्भवः, मैवमाधारदो. षात्, दृश्यते हि कटुकालाबूभाजने निहितं दुग्धं स्वगुणं परित्यजति तथा मत्यादीन्यपि मिथ्या दृष्टिभाजनगतानि दुष्यन्ति पारिणामिकशक्तिविशेषात् , न च रूपादिविषयोपलब्धिव्यभिचा20 राभावात्तेषां विपर्ययाभावः, यथैव हि मतिज्ञानेन सम्यग्दृष्टयो रूपादीनुपलभन्ते तथैव मिथ्यादृष्टयोऽपि मतिज्ञानेन, यथैव घटादिषु रूपादीन श्रुतेन निश्चिन्वन्त्युपदिशन्ति च परेभ्यस्सम्यग्दृष्टयस्तथा मिथ्यादृष्टयोऽपि श्रुतज्ञानेन, यथैवावधिना रूपिणोऽर्थानवगच्छन्ति तथैव विभङ्गेनापीति वाच्यम् । विद्यमानाविद्यमानार्थयोर्यथावदवबोधाभावेन तादृशोपलब्धेर्या दृच्छिकत्वात् , उन्मत्तोपलब्धिवत् । उन्मत्तो हि दोषोदयात्कदाचिल्लोष्ठं सुवर्णमिति सुवर्ण लोष्ठ25 मिति जानाति कदाचिच्च लोष्ठं लोष्ठमिति सुवर्ण सुवर्णमिति च, तथैव मिथ्यादर्शनोदयात् वस्तुनोऽनेकान्तात्मकस्यैकान्तात्मकत्वं कर्तृरहितं जगत्सकर्तृकञ्च जानात्यतो यथार्थबोधाभावेन कदाचित्तस्योपलब्धेर्यथार्थरूपादिविषयकत्वेऽपि अज्ञानमेवेति भावः। एवन्तष्टिविधत्वं ज्ञानानामत्र कथमुक्तमित्यत्राहात्रेति मार्गणाप्रकरण इत्यर्थः। पञ्चविधत्वेऽपि ज्ञानानामिति । शब्दनयमते सर्वजीवानां चेतनास्वभावत्वात् ज्ञस्वभावत्वाच्च न कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते,
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy