________________
शानमार्गणा ]
न्यायप्रकाशसमलते त्वमित्युच्यते तदापि केवलोपयोगविरहकाले मतिज्ञानोपयोगसम्भवेन देशतः परिच्छेदेन तदा तस्यासर्वज्ञत्वं बलादापतत्येव । न च तस्य तदुपयोग एव न भविष्यतीति वाच्यम् , आत्मनः स्वभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात् , केवलज्ञानानन्तरं केवलदर्शनोपयोगवत् , ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं मत्यादिज्ञानोपयोगकालेऽसर्वज्ञत्वमापद्यते, न चैतदिष्ट, तस्माज्ज्ञानं असकलसंज्ञितं सकलसंज्ञितमिति द्विभेदमेव, अवग्रहज्ञाना. 5 दारभ्य यावदुत्कर्षप्राप्तपरमावधिज्ञानं तावत्सकलमप्येकं,तच्चासकलसंज्ञितमशेषवस्तुविषयत्वाभावात्, अपरश्च केवलिनस्तच्च सकलसंज्ञितमिति चेदुच्यते, ज्ञानानां ज्ञप्त्येकस्वभावत्वं सामान्यतो वा विशेषतो वा भवताऽभ्युपगम्यते ? नाद्यस्सिद्धसाध्यतया तस्य बाधकत्वायोगात् बोधरूपतयाऽस्माभिरपि सकलज्ञानस्याप्येकत्वाभ्युपगमात् , नापि द्वितीयोऽसिद्धत्वात् , स्वसंवेदनप्रत्यक्षेण प्रतिप्राणि ज्ञानस्योत्कर्षापकर्षदर्शनाद्विशेषत एकत्वानुपलम्भात् । न चोत्क- 10 र्षापकर्षमात्रभेददर्शनेन यदि ज्ञानस्य भेदस्तहि प्रतिप्राणि देशकालापेक्षयोत्कर्षापकर्षयोरनेकविधत्वेन ज्ञानस्यानेकविधत्वमेव प्राप्तं न तु पञ्चविधत्वमिति वाच्यम् , परिस्थूलनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात् । तथाहि सकलघातिक्षयो निमित्तं केवलज्ञानस्य, मनःपर्यायज्ञानस्य त्वमर्पोषध्यादिलब्ध्युपेतस्य प्रमादलेशेनाप्यकलङ्कितस्य विशिष्टाध्यवसायानुगतोऽप्रमादः, अवधिज्ञानस्य पुनस्तथाविधानिन्द्रियरूपिद्रव्यसाक्षादवगमननिबन्धनः क्षयो- 15 पशमविशेषः, मतिश्रुतयोस्तु लक्षणभेद इति । ज्ञेयभेदमावतो ज्ञानस्य भेदानभ्युपगमान्न तत्पक्षोक्तदोषः, एकेनाप्यवग्रहादिना बहुविधवस्तुग्रहणोपलम्भात् । नापि प्रतिपत्तिप्रकारभेदकृतो दोषस्सम्भवति देशकालाद्यपेक्षया ज्ञानानामानन्त्येऽपि परिस्थूलनिमित्तभेदेन व्य. वस्थापितज्ञानपञ्चकेभ्योऽनतिरिक्तत्वात् तजातीयत्वानतिक्रमणात् । परिस्थूलनिमित्तभेदमधिकृत्य ज्ञानानां भेदव्यवस्थापनाच नावरणभेदप्रयुक्तदोषस्यावकाश इति । न चैवं 20 व्यवस्थापिता ज्ञानभेदा ज्ञानस्यात्मभूता अनात्मभूता वा, आत्मभूतत्वे क्षीणावरणेऽपि तद्भावप्रसङ्गः, अनात्मभूतत्वे न ते पारमार्थिकाः, ततः कथमावार्यापेक्षो वास्तव आवारकभेद इति वाच्यम्, वस्तुतत्त्वापरिज्ञानात् । इह हि सकलघनपटलविनिमुक्तशारददिनमणिरिव समन्ततस्समस्तवस्तुस्तोमप्रकाशनैकस्वभावो जीवः, तस्य च तथाभूतस्वभावः केवलज्ञानमिति व्यपदिश्यते । स च यद्यपि सर्वघातिना केवलज्ञानावरणेना- 25 ब्रियते तथापि तस्यानन्ततमो भागो नित्योद्घाटित एव । ततस्तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दप्रकाशस्सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते मतिज्ञानावरणक्षयोपशमजनितो मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरणक्षयोपशमजनितस्स श्रुतज्ञानमित्यादिरूपेण । तत आत्मस्वभावभूता मत्यादयो