________________
:२८६ : तत्त्वन्यायविभाकरे
[ दशमकिरणे क्त्वमिति सम्यक्त्वसहचार्युपशमादिगुणावारकत्वमनन्तानुबन्धिनां, सम्यग्दर्शनमोहनीयस्य कचित्सप्तविधत्वकथनन्तु सम्यक्त्वसहचारिगुणेषु सम्यक्त्वोपचारात् । देशविरत्यावारका अप्रत्याख्यानाः, सर्वविरतिघातिनः प्रत्याख्यानाः, संज्वलना यथाख्यातचारित्रावारकाः ॥
सम्प्रति ज्ञानमार्गणाभेदमाह5 मतिश्रुतावधिमनःपर्यवकेवलमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदादष्टौ
ज्ञानमार्गणाः। मिथ्यादृष्टीनां मतिश्रुतावधयः क्रमेण मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानान्युच्यन्ते । अत्र पञ्चविधत्वेऽपि ज्ञानानामन्वेषणाप्रस्तावे आद्यत्रयविपरीतानामपि मत्यज्ञानादीनां ज्ञानत्वेन ग्रहणादष्टविधत्वं
ज्ञानमार्गणाया बोध्यम् । मनःपर्यवकेवलयोस्तु वैपरीत्याभाव एव । 10 अग्रे संयमादिष्वप्येवमेव वैपरीत्येन मार्गणा विज्ञेयाः॥
मतीति । ज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनास्मिन्नस्माद्वेति ज्ञानं, ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा, ज्ञातिर्वा ज्ञानं, आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यायविशेषः, विशेषांशग्राहको ज्ञानपञ्चकाज्ञानत्रयरूपः । ननु सकलमपीदं ज्ञानं ज्ञप्त्ये कस्वभावं ज्ञप्त्येक
स्वभावत्वस्य सर्वत्राविशेषेण किं कृतोऽयं पञ्चधाऽष्टधा वा मेदः, न च वार्तमानिकं वस्तु 15 मतेः, त्रिकालविषयः परिणामो ध्वनिगोचरः श्रुतस्य, रूपिद्रव्याण्यवधेः, मनोद्रव्याणि
मनःपर्यवस्य, समस्तपर्यायान्वितं सर्व वस्तु विषयः केवलस्येति ज्ञेयभेदस्तत्कृतो ज्ञानभेद इति वाच्यं केवलज्ञानस्य बहुभेदत्वापत्तेः, वार्त्तमानिकादिवस्तूनां तत्राऽपि ज्ञेयत्वादन्यथा तदविषयत्वे तस्य केवलिनोऽसर्वज्ञत्वापत्तिप्रसङ्गः, न च यादृशी प्रतिपत्तिर्मत्यादिज्ञानस्य न
तादृशी श्रुतादिज्ञानस्येति प्रतिपत्तिप्रकारभेदाढ़ेद इति वाच्यम् , एकस्मिन्नपि ज्ञाने तत्तद्दे20 शकालपुरुषस्वरूपभेदेनानन्तभेदप्रसक्तेः प्रतिपत्तिप्रकारस्यानन्त्यात् । न चावारकाणां
मतिज्ञानावरणादीनां भेदाढ़ेद इति वाच्यम् , ज्ञानस्यैकत्वे आवारकाणां पञ्चधात्वानुपपत्तेः, आवार्यापेक्षं ह्यावरकं, आवार्यञ्च ज्ञानं ज्ञप्तिरूपत्वादेकमत आवारकं कथं पञ्चधा भवेत् । न च स्वभावादेव पञ्चधात्वं स्वभावे च न पर्यनुयोग इति वाच्यम् , भगवतस्सर्वज्ञत्व
हानिप्रसङ्गात् , ज्ञानस्यात्मधर्मत्वेन मत्यादीनां स्वाभाविकत्वेन च क्षीणावरणस्यापि तद्भा25 वप्रसक्त्याऽस्मदादिवत्तस्यासर्वज्ञत्वं स्यात् , यदि केवलज्ञानभावतस्समस्तवस्तुपरिच्छेदान्नास
१. शमसंवेगनिर्वेदानुकम्पास्तिक्येषु ॥ २. मत्यादिज्ञानविषयजातस्य तेनाग्रहणादिति भावः ॥ ३. नहि कोऽप्येवं पर्यनुयुंक्ते कथं घट एव जलाहरणं करोति न पट इतीति भावः ॥