________________
कषायमार्गणा ]
न्यायप्रकाशसमलते । .... पुमिति । त्रयोऽपि वेदा द्रव्यभावभेदेन द्विविधाः । पुरुषस्य रुयभिलाषो भाववेदो निर्माणाङ्गोपाङ्गादिनामकर्मजन्यः पुरुषस्य श्मश्रूकूर्चशिश्नादिविशिष्टो द्रव्यपुरुषवेदः, स्त्रियः स्तनयोनिनिर्लोममुखादिविशिष्टाकारो द्रव्यस्त्रीवेदः, एतदुभयविलक्षणाकारो द्रव्यनपुंसकवेदः ॥ कषायमार्गणाभेदमभिधत्ते
क्रोधमानमायालोभरूपाश्चतस्रः कषायमार्गणाः॥ 5 क्रोधेति । चतुःप्रतिष्ठितः क्रोधः, यथाहि स्वयमाचरितमैहिकमामुष्मिकं प्रत्यपायमवबुद्ध्य यदा कश्चिदात्मन एवोपरि क्रुध्यति तदा स क्रोध आत्मप्रतिष्ठितः । यदा पर उदीरयत्याक्रोशादिना कोपं तदा किल तद्विषये क्रोध उपजायत इति स परप्रतिष्ठितः । यदा कश्चित्तथाविधापराधादात्मपरविषयक्रोधमाधत्ते स उभयाश्रितः, यदा तु स्वयं दुश्चरणमाक्रोशादिकञ्च कारणं विना केवलक्रोधवेदनीयादुपजायते स हि नात्मप्रतिष्ठितः, स्वयं 10 दुश्चरणानाचरणेनात्मविषयत्वाभावात् , न परप्रतिष्ठितः परस्यापि निरपराधित्वात् , अत एव नोभयप्रतिष्ठितः, अतोऽप्रतिष्ठित इति, एवं मानादयोऽपि । अनन्तानुबन्ध्यादिभेदाः पूर्वमेवोक्ताः, तथा आभोगनिवर्तितानाभोगनिवर्तितोपशान्तानुपशान्तभेदतोऽपि ते चतुर्धा भवन्ति, यदा यस्यापराधं सम्यगवबुध्य कोपकारणञ्च व्यवहारतः पुष्टमवलम्ब्य नान्यथाऽस्य शिक्षोपजायत इत्याभोग्यकोपञ्च विधत्ते तदा स कोप आभोगनिर्वर्तितः। यदा त्वेवमेव तथाविधमुहू- 15 विशाद्गुणदोषविचारणाशून्यः परवशीभूय कोपं कुरुते तदा स कोपोऽनाभोगनिर्वर्तितः, अनुदयावस्थ उपशान्तो निर्निमित्तमुदयावस्थोऽनुपशान्तः । अनन्तानुबन्धिक्रोधादयः सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवप्रतिबन्धिनः, चारित्रमोहनीयत्वात् , न चोपशमादिभिरेव चारित्री, अल्पत्वाद्यथैककार्षापणो न धनपतिः किन्तु महता मूलगुणादिरूपेण चारित्री मनःसंज्ञया संज्ञिवत्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं 20 चारित्रमोहनीयम् । न च चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तिस्तथा च सप्तविधं दर्शनमोहनीयमेकविंशतिविधञ्च चारित्रमोहनीयमिति वाच्यम् , अनन्तानुबन्धिभिरेव सम्यक्वे आवृते मिथ्यात्वस्य वैयर्थ्यापत्तेः, आवृतस्याप्यावरणेऽनवस्थानात् , तस्माद्यथा कषायाणां केवलज्ञानानावारकत्वेऽपि कषायक्षयः केवलज्ञानकारणतयोच्यते तस्मिन् सत्येव तस्य भावात् , तथानन्तानुबन्धिषूदितेषु न मिथ्यात्वं क्षयोपशममुपयाति तदभावाच्च न सम्य- 25
१. पुरुषवेदो निरन्तरं भवन् जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्सातिरेकसागरोपमशतपृथक्त्वं । स्त्रीवेदो जघन्येनैकस्समयः । उत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वञ्च, नपुंसकवेदो जघन्यत एकस्समयः, उत्कर्षतोऽनन्ताद्धा ॥