________________
: २८४ :
तत्त्वन्यायविभाकरे
[ दशमकिरणे
बीज बीज पर्व बीज स्कन्धबीज बीजरुह सम्मूर्च्छन जभेदात् । अग्रबीजाः कुरण्टादयः, मूलबीजा उत्पलादयः, पर्वबीजा इक्ष्वादयः, स्कन्धबीजाः सल्लक्यादयः, बीज रुहा श्शाल्यादयः, सम्मूर्छनजास्तृणादयः | सर्वोऽपि वनस्पतिकायो द्विविधः पर्याप्तापर्याप्तभेदादिति । त्रसा द्विविधाः, गतित्रसा उदारत्रसाश्चेति, तेजोवायवो गतित्रसाः सञ्चलनधर्मत्वात् परन्तु 5 ते नात्र विवक्षिताः, त्रसनामकर्मोदयप्रभवानामेव विवक्षितत्वात् । ते चोदारत्रसा एव, उक्तश्च तत्त्वार्थे “ तेजोवायू द्वीन्द्रियादयश्च त्रसा ” इति । तेजोवाय्वोः क्रियातस्त्रसत्वं, द्वीन्द्रियादीनां लब्धित इति भावो भाष्यटीका कृद्भिराविष्कृतः, उदारा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, व्यक्तश्वासोच्छ्वासादिप्राणयोगात्, उदारा अपि पर्याप्तापर्याप्तभेदेन द्विविधाः, कृमिशंखादयो द्वीन्द्रियाः कुन्थुपिपीलिकादयस्त्रीन्द्रियाः, भ्रमरमक्षिकादयश्चतु10 रिन्द्रियाः, नारकतिर्यङ्मनुष्यदेवाः पञ्चेन्द्रियास्सर्वे त्रसा एव न त्वेकेन्द्रिया इव सास्स्थावराश्च । तत्र नरकावासेषु भवा नारकाः । तिर्यो गवादयो जलचरस्थलचरखेचरभेदभिन्नाः । संमूच्छिमा गर्भजाश्चेति मनुष्या द्विविधाः, कर्मभूम्यकर्मभूम्यन्तरद्वीपेषु ये मनुष्या गर्भव्युत्क्रान्तास्ते गर्भजाः, एषां पुरीषमूत्रश्लेष्म सिंघाणवान्तपित्तशोणितशुक्रमृतशरीरपूयस्त्रीपुंसंयोगशुक्रपुद्गलविच्युतिनगर निर्धमननिखिलापवित्रस्थानेषु ये सम्मूच्छितास्ते 15 सम्मूच्छिमाः । एतेऽपर्याप्ता एव । संमूच्छिमभिन्ना मनुजास्तु पर्याप्ता अपर्याप्ता अपि । देवास्तु चतुर्निकायाः चतुर्विधोत्पत्तिस्थानत्वात् व्यन्तरज्योतिष्कवैमानिक भवनवासिभेदात् विवेचिता ते पूर्वमेव तेऽपि पर्याप्तापर्याप्तभेदभिन्ना इति दिक् ॥
योगमार्गणाभेदमाह–
मनोवाक्कायास्तिस्रो योगमार्गणाः ॥
20 मन इति । मनःप्रायोग्याणि द्रव्याण्यात्मप्रदेशैः काययोगेनादाय मनस्त्वेन परिमितानि वस्तुचिन्ताप्रवर्त्तकानि च मनांसि तैस्सहकारिकारणभूतैस्सहितो जीववीर्यविशेषो मनोयोगः । सत्यादिभेदतस्स चतुर्विधः । भाषापुद्गलग्रहणोत्तरं भाषापरिणाममापन्नाः पुद्गला वागित्युच्यते, तत्सहकारिकारणको योगो जीवशक्तिविशेषो वाग्योगः, सोऽपि पूर्ववदेव चतुर्विधः । केवलं कायावष्टम्भजन्यस्सामर्थ्य विशेषः काययोगः । स चौदारिका दिभेदेन 25 सप्तविधः । अवान्तरभेदानां स्वरूपाण्यन्यत्र पूर्वे वा द्रष्टव्यानि ॥
अथ वेदमार्गणाभेदमाचष्टे –
पुंस्त्रीनपुंसकभेदेन तिस्रो वेदमार्गणाः ॥