________________
गतिमार्गणा ]
म्यायप्रकाश समलङ्कृते
: २८१ :
परिणामविशेषः । भव्येति, मुक्तियोग्यो भवतीति भव्यः परमपदयोग्यतावान् विवक्षितपर्यायेण भविष्यतीति वा भव्यः, अनादिपारिणामिकभव्यभावयोगी । सम्यक्त्वेति, सम्यक्शब्दः प्रशंसार्थोऽविरुद्धार्थो वा सम्यगित्यस्य भावः सम्यक्त्वं प्रशस्तो मोक्षाविरोधी वा प्रशमसंवेगादिलक्षण आत्मधर्मस्तत्त्वार्थश्रद्धानं वा मिथ्यात्वमोहनीयक्षयोपशमादिजन्यम् । संज्ञीति, संज्ञा भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते यस्य स 5 संज्ञी, विशिष्टस्मरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्चकसमन्वितः प्राणी, संज्ञा देवगुरुधर्मपरिज्ञानं सा विद्यते यस्य स संज्ञीति वा । आहारकेति, आहरणमाहारः, ओजोलोमप्रक्षेपरूपः, तमाहारयतीत्याहारकः । मूलभूता इति, उत्तरभेदा अग्रे वक्ष्यन्त इति भाव:, मार्गणा इति, मार्ग्यन्ते आभिरिति मार्गणाः, पर्यालोचनाहेतुभूता अन्वयिधर्माः, पदार्थावेषणस्थानानि वेत्यर्थः ॥
अथोत्तरमार्गणा आचष्टे
10
नरकतिर्यङ्मनुष्यदेवभेदेन चतस्रो गतिमार्गणाः ||
नरकेति । नरकगतितिर्यग्गतिमनुष्यगतिदेवगतिभेदेनेत्यर्थः । नरान् कायन्ति शब्दयन्ति - योग्यतानतिक्रमेण जन्तूनाकारयन्ति स्वस्वस्थान इति नरकाः पापकर्मणां यातनास्थान तत्र गतिस्तद्योग्य पर्यायविशेषो नारकत्वरूपः, नामस्थापनाद्रव्यक्षेत्र कालभावभेदान्नरक- 15 पदनिक्षेपापोढा, तत्र नामस्थापने प्रसिद्धे, आगमतो नोआगमतश्च द्रव्यनरको द्विधा, आगमतोऽनुपयुक्तो ज्ञाता,नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता इहैव भवे तिर्यग्भवे केचनाशुभकारित्वादशुभास्सत्त्वाः कालकसौकरिकादयः । अथवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याश्च नरकप्रतिरूपा वेदनास्तास्सर्वा अपि द्रव्यनरकतयाभिधीयन्ते यद्वा कर्म - द्रव्यनोकर्मद्रव्यभेदाद्द्रव्यनरको द्वेधा, तत्र नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभ- 20 विकस्य बद्धायुष्कस्याऽभिमुखनामगोत्रस्य चाश्रयेण द्रव्यनरकरूपाणि भवन्ति । नोकर्मद्रव्यनरकास्तु इहैव येऽशुभा रूपरसगन्धशब्दस्पर्शास्ते । क्षेत्रनरकस्तु नरकावकाशकालमहाकालरौरवमहारौरवप्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः, कालनरकस्तु यत्र यावती स्थितिः । भावनरकाश्च ये जीवा नरकायुष्कमनुभवन्ति ते, तथा नरक - प्रायोग्यकर्मोदयः । एतद्वितयमपि भावनरकत्वेनाभिधीयत इति । तिरोऽञ्चन्ति गच्छन्तीति 25 तिर्यञ्चो व्युत्पत्तिनिमित्तश्चैतत् प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम । तिर्यङ्नामकर्मोदयनिपाद्यतिर्यक्त्वलक्षणपर्यायविशेषस्तिर्यग्गतिः, मनुजगतिना मकर्मोदयस मापादितमनुष्यत्व
३६