________________
: २८२ :
25
तत्त्वन्यायविभाकरे
[ दर्शमकिरण
लक्षणपर्यायविशेषो मनुजगतिः, देवगतिनामकर्मोदद्यप्रभवदेवत्वलक्षणपर्यायविशेषो देवगतिरित्येवं गतिमार्गणोत्तरभेदाश्चत्वार इति भावः ॥
'इन्द्रियमार्गणोत्तरभेदानाह
एक द्वित्रिचतुःपञ्चेन्द्रियभेदेन पञ्चेन्द्रियमार्गणाः ॥
I
5 एकेति । तत्रेन्द्रियाणि स्पर्शनरसनघ्राणचक्षुश्श्रोत्राणि, द्रव्यभावभेदेन तानि द्विविधानि निवृत्त्युपकरणभेदेन द्रव्येन्द्रियमपि द्विविधम् भावेन्द्रियमपि लब्ध्युपयोगभेदेन द्विविधम्, निवृत्तिर्नाम प्रतिविशिष्टस्संस्थानविशेषः, सापि बाह्याभ्यन्तरभेदेन द्विधा, बाह्या पर्पटिकादिरूपा सा च विचित्रा न प्रतिरूपनियतरूपतया वक्तुं शक्यते, आभ्यन्तर निवृत्तिस्तु सर्वेषामपि समाना कदम्बपुष्पाद्याकारा, स्पर्शनेन्द्रियस्य तु बाह्याभ्यन्तरभेदा नास्ति | उपकरणं 10 शक्तिविशेष आभ्यन्तरनिवृत्तिनिष्ठः कथञ्चिदर्थान्तरभूतः, कथञ्चिदभेदाच्च द्रव्यादिना तस्य विघातसम्भवः । लब्धिस्तत्तदिन्द्रियविषयतस्तत्तदिन्द्रियावरणक्षयोपशमः शेषेन्द्रियाणि लब्धिप्राप्तावेव भवन्ति, श्रोत्रादीन्द्रियस्य स्वस्वविषये शब्दादौ परिच्छेद्यव्यापार उपयोगः, स चैकस्मिन् काले एकेनैव केनापीन्द्रियेण भवति, तस्मादुपयोगमाश्रित्य सर्वेऽपि जीवा एकेन्द्रियाः, एकेन्द्रियद्वीन्द्रियादिव्यपदेशस्तु निवृत्त्युपकरणलब्धीन्द्रियाणि प्रतीत्य, एवं 15 लब्धीन्द्रियमाश्रित्य सर्वे पृथिव्यादयोऽपि जीवा पञ्चेन्द्रिया बकुलचम्पकतिलकविरहकादीनां वनस्पतिविशेषाणां रसनघ्राणचक्षुःश्रोत्रलक्षणेन्द्रियसम्बन्ध्युपलम्भदर्शनेन तदावरणक्षयोपशमसम्भवानुमानात्, दृश्यते हि शृङ्गारितकामिनीवदनार्पितचारुमदिरारागगण्डूषेण बकुलस्य, तिलकस्य कामिनीकटाक्ष विक्षेपेण, विरहकस्य पञ्चमोद्गारश्रवणेन पुष्पपल्लवादिसम्भवः । बाह्येन्द्रियापेक्षया तु एकेन्द्रियादिव्यवहारः । न च बकुलादीनामेकैको रसनादीन्द्रियोपलम्भ 20 एवोक्तः कथं सर्वविषयोपलम्भसम्भव इति वाच्यम्, मुख्यतया तत्सम्भवेऽपि गौणवृक्ष्या शेषेन्द्रियोपलम्भसम्भवात्, शृंगारितस्वरूपतरुणीगण्डूषार्पणात् तस्याश्च तनुलतास्पर्शाधररसचन्दनाद्गिन्धशोभनरूपमधुरोल्लापलक्षणानां पञ्चानामपीन्द्रियविषयाणां सम्भवादिति । द्रव्येन्द्रियापेक्षया त्वेकेन्द्रियमार्गणा द्वीन्द्रियमार्गणा त्रीन्द्रियमार्गणा चतुरिन्द्रियमार्गणा पञ्चेन्द्रियमार्गणेति इन्द्रियमार्गणाः पञ्चविधा इति भावः ॥
अथ काय मार्गणाभेदमाह–
पृथिव्यप्तेजोवायुवनस्पतित्रसभेदेन षट् काय मार्गणाः ॥
पृथिवीति । पृथिवी काया काय तेजस्कायवायुकाय वनस्पतिकायत्र सकायरूपाः षडित्यर्थः । पृथिव्येव कायो यस्य सः पृथिवीकायः, स द्विविधस्सूक्ष्मबादरभेदात्, तत्र