________________
: २८० : तस्वन्यायविभाकरे
[दशमकिरणे तत्रेति । गतीति, गम्यते प्राप्यते स्वकर्मरजसा समाकृष्टैर्जन्तुभिरिति गतिः, तत्तन्नामकर्मोदयानारकत्वादिपर्यायपरिणतिस्तद्विपाकवेद्यकर्मप्रकृतिरपि, कारणे कार्योपचारात् । ननु सर्वेऽपि पर्याया जीवेन प्राप्यन्त इति सर्वेषामपि गतित्वप्रसङ्गो नैवं, यतो विशेषेण व्युत्पादिता अपि शब्दा रूढितो गोशब्दवत्प्रतिनियतमेवा) विषयीकुर्वन्तीत्यदोषः। तथा च नारक5 त्वादिरेवात्र शास्त्रीयरूढ्या गतिशब्दवाच्यो न ग्रामादिगमनक्रिया, नापि यानादिक्रियेति
भावः । इन्द्रियेति । इदि परमैश्वर्य इति धातोरिन्दनादिन्द्रो जीवः, आवरणाभावे सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात् , तस्य लिङ्ग-चिह्नमविनाभाविलिङ्गसत्तासूचनात् , इन्द्रिय. विषयोपलम्भाद्धि ज्ञापकत्वसिद्धिस्तत्सिद्धावुपयोगलक्षणो जीव इति जीवत्वसिद्धिरिति ।
इन्द्रेण दृष्टं सृष्टं जुष्टं दत्तमिति वेन्द्रियम् । आत्मना दृष्ट्वा स्वविषये नियोजनात् , आत्मकृत10 शुभाशुभकर्मणा चक्षुरादीनां सर्जनात्। इन्द्रियद्वारेणास्य विज्ञानोत्पादात् , विषयग्रहणायात्मना
विषयेभ्यः समर्पणाच्च । अत्र यज्जीवलिङ्गं तत्सर्वमिन्द्रियमिति न नियमः परन्तु यदिन्द्रियं तत्तथाविधमिति, यथा ये वृक्षास्त आम्रा इति न नियमः किन्तु य आम्रास्ते वृक्षा इति । इन्द्रियविशेषचर्चा अग्रे करिष्यते । कायेति, चीयते उपचयं नीयते यथायोगमौदारिकादिव.
गणागणैर्यस्स कायः, योगेति, युज्यते इति योगो मन आदिर्धावनवल्गनादिक्रियासु वीर्यान्त15 रायक्षयोपशमजन्यपर्यायेण व्यापार्यमाणत्वात् तत्तक्रियास्ववलम्बनरूपत्वाद्वीर्यशक्तिस्थामादि
पदवाच्यस्सामर्थ्य विशेषो योगः । वेदेति, अङ्गोपाङ्गनिर्माणादिनामकर्मोदयजन्यशरीरवृत्त्याकारविशेषो वेदः । कषायेति कृषन्ति विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्तीति कषाया औणादिक आयप्रत्ययो निपातनाञ्च ऋकारस्याकारः। कलुषयन्ति शुद्धस्वभावं सन्तं
जीवं कर्ममलिनं कुर्वन्तीति कषाया निपातनात्कलुषशब्दस्य कषायादेशः । कष्यन्ते बाध्यन्ते 20 जीवा अनेनेति कषं कर्म भवो वा तस्यऽऽयो लाभ एषां यतस्ते कषायाः मोहनीयकर्मपुद्गलो
दयसम्पाद्यजीवपरिणाम विशेषाः क्रोधादयः । ज्ञानेति ज्ञातिर्ज्ञानं, ज्ञायते वस्तु परिच्छिद्यतेऽ नेनेति ज्ञानं, यथास्थितार्थपरिच्छेदनं, यद्वा ज्ञातिर्ज्ञानमावरणक्षयाद्याविर्भूत आत्मपर्यायविशेषः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः, ज्ञायतेऽनेनास्माद्वा ज्ञानं तदा
वरणस्य क्षयः क्षयोपशमो वा । संयमेति, संयमनं संयमः, सावद्ययोगात्सम्यगु. 25 परमणम् , संयम्यते नियम्यते आत्मा पापव्यापारसम्भारादनेनेति संयमः शोभना यमाः
प्राणातिपातानृतभाषणादत्तादानाब्रह्मपरिग्रहविरमणलक्षणा यस्मिन्निति संयमश्चारित्रम् । दर्शनेति, दृष्टिदर्शनं सामान्यविशेषात्मवस्तुवृत्तिसामान्यविषयकबोधः, अनाकारात्मको बोधो वा, दृश्यतेऽनेन वा दर्शनं दर्शनावरणक्षयः क्षयोपशमो वा । लेश्येति । लिश्यते प्राणी कर्मणा यया सा लेश्या, कर्मबन्धस्थितिविधात्री, कृष्णादिद्रव्यसाचिव्यादात्मनः