________________
मार्गणाः ] न्यायप्रकाशलमलड़ते .
: २७९ : सत्यपि घटपदप्रयोगदर्शनान्मोक्षशब्दः सिद्धशब्दो वा घटपदवद् विद्यमानार्थाभिधायको वा शशशृङ्गवदविद्यमानार्थाभिधायको वेत्याशङ्कायामाह सिद्धसत्ताया इत्यादि । मोक्षादिशब्दस्य विद्यमानार्थाभिधायकत्वमाप्तोपदेशात् , असमस्तपदत्वहेतोरनुमानाद्वा निरूपणमित्यर्थः, अनुमानप्रयोगश्च मोक्षशब्दस्सिद्धशब्दो वा विद्यमानार्थाभिधायी, असमस्तत्वे सति पदत्वाद्धटादिपदवदिति । शशशृङ्गादिपदे व्यभिचारवारणाय विशेषणम् । अनर्थकवर्णसमुदाये व्यभिचा- 5 रवारणाय विशेष्यम् । अत्र पदत्वं न सुप्तिङन्तत्वरूपं, द्योतकेषु निपातेषु तादृशपदत्वसत्वेन साध्याभावाद्व्यभिचारापत्तेः । किन्तु स्वार्थप्रत्यायने शक्तिमद्यत्पदान्तरघटितवर्णान्तरापेक्षणरहितं परस्परस्वघटितवर्णसहकारिवर्णसङ्घातरूपं तदेव चासमस्तं पदं, राजपुरुष इत्यादिसमस्ते पदत्वव्यवहारस्तु सुप्तिङन्तत्वात् , न तूक्तलक्षणतः, स्वार्थप्रत्यायने समस्तपदसमुदाये शक्त्यभावात् । यदि चैकदेशसमुदाययोः कथश्चित्तादात्म्येन तत्रापि स्वार्थ- 10 प्रत्यायनशक्तिमत्त्वं वर्ततेऽन्यथाऽर्थवत्त्वाभावे नामसंज्ञाऽप्रवृत्तौ विभक्त्यनुपपत्तिस्यादिति विभाव्यते तदापि न तस्य पदत्वं, पदान्तरघटितवर्णान्तरसापेक्षत्वात् । न च पदलक्षणे पदस्य घटितत्वेनात्माश्रयापत्तिरिति वाच्यम् । पदलक्षणे सुप्तिङन्तरूपस्य पदस्यैवान्तर्गतत्वात् । अत एव हि घटादिशब्दानां पदत्वमन्यथा, घटधातूत्तरस्याप्रत्ययस्य कर्थकत्वेन शक्तिमत्त्वात्पदत्वप्राप्तौ पदान्तरघटितवर्णान्तरापेक्षत्वेन पदत्वं न स्यात् , तथा चेदृशं पदत्वं न शशशृंगादि- 15 शब्देषु वर्त्तते पदान्तरघटितवर्णान्तरापेक्षत्वात् , अर्थवत्त्वं पुनरस्त्येव, अन्यथा नामसंज्ञाs प्राप्त्या विभक्त्यनुत्पत्तिप्रसङ्गः स्यात्, एवञ्च मोक्षशब्दस्य योऽयं विद्यमानोऽर्थस्स एव कृत्मकर्मक्षयरूपो मोक्ष इति निश्चीयते । यद्यपि मोक्षशब्दस्य विमुक्तिरूपस्य कारागारान्मोक्षो जात इत्यादि प्रतीत्या प्रसिद्धिरस्ति तथापि सर्वबन्धक्षयस्यैव तत्पदस्य मुख्यार्थतया तस्य सिद्धिर्विवक्षिता, उक्तप्रतीतौ तु यत्किञ्चिद्वन्धविमुक्तिवाचकत्वं मोक्षपदस्य 2c लाक्षणिकं, असति प्रतिबन्धके शब्दार्थसंकोचस्यान्याय्यत्वात् । अतो न सिद्धसाधनत्वा. पत्तिः । तथा च तादृशपर्यायवतां सिद्धानामपि विद्यमानत्वं सिद्धमेव, पर्यायमात्रस्य साधिकरणत्वादिति मन्वानो गत्यादिचतुर्दशमार्गणासु ते क सन्तीत्याशंकायां मनुजादिगत्यादावेव तेषां सिद्धिरिति शास्त्रतो यन्निरूपणं सैव सत्पदप्ररूपणेति दर्शयति गत्यादीत्यनेन वाक्येन । तथा च सिद्धसत्ताया अनुमानेनागमेन वा गत्यादिमार्गणाद्वारेषु सिद्धसत्ताया ॐ आगमेन निरूपणं सत्पदप्ररूपणेति योजना कार्या, प्रथमयोजनाया भावस्तु प्रदर्शित एव, द्वितीययोजनाया भावमाख्यातुं गत्यादिमार्गणा विभागेन स्वरूपेण च दर्शयति.. तत्र गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसंख्याहारकरूपाश्चतुर्दश मूलभूता मार्गणाः॥.....