________________
: २७८ :
तत्त्वन्यायविभाकरे
[दशमकिरणे
न्तरेणात्मनोऽभ्युपगतत्वेन तस्यैव बन्धमोक्षयोरुपपादितत्वात् , न च नित्यस्याविकार्यतया तदनुपपत्तिरिति वाच्यम् एकान्तनित्यताया निरासेन परिणामिनित्यस्यैवास्माभिरङ्गीकारात् । तस्मादात्माभाव इति रिक्तं वचः । यद्यस्माभिरपि सन्तानस्य संवृतिसत्तयैवाभ्युपेयते तर्हि
सन्तानिनां ज्ञानक्षणानामेव वस्तुसत्त्वं तेषाश्चानेकत्वक्षणिकत्वाभ्यामेकस्यैव बन्धमोक्षयोर5 नुपपत्त्याऽन्यस्य बन्धोऽन्यस्य मोक्ष इति स्यात्, तथाचानुगतस्यैकस्याभावेन मोक्षप्रवृत्तिर्न स्यात्, एवं सन्तानिभ्यस्सन्तानस्याभिन्नत्वेऽपि पूर्वोक्तदोष एव । नवा सन्तानस्यानागता. नुत्पादलक्षणमोक्षस्संगच्छते, ज्ञानक्षणस्य ज्ञानक्षणान्तरजननस्वभावत्वादिति ॥
एवं स्वरूपतो मोक्षमभिधाय तत्त्वभेदपर्यायैर्व्याख्या कार्येति नियममनुसरन् तरेदान प्रदर्शयितुकामः सिद्धान्ते सिद्धानां सत्पदप्ररूपणादिभिर्निरूपणदर्शनेन स्वयमपि तथैव 10 विदधातुं सिद्धानवतारयति
तद्वान् मुक्तः॥ तद्वानिति । कृत्स्नकर्मक्षयप्रयुक्तस्वस्वरूपावस्थानपर्यायवान्मुक्त इत्यर्थः । तेन पर्यायपर्यायिणोः कथञ्चिदभेदात्सत्पदप्ररूपणादिभिस्सिद्धभेदे वाच्ये तदभिन्नमोक्षात्मकपर्याय
स्याऽपि भेदः प्रज्ञापित एवेति भावः ॥ 15 तत्र मुक्ताः कतिविधा इत्यत्राह
सोऽनुयोगद्वारैस्सिद्धान्तप्रसिद्धस्सत्पदप्ररूपणादिभिर्नवभिनिरूपणादुपचारेण नवविधः ।।
स इति । मुक्त इत्यर्थः । अनुयोगद्वारैरिति, विधिनिषेधाभ्यामर्थप्ररूपणारूपैर्व्याख्याप्रकारैरित्यर्थः । सिद्धेषु परस्परं वस्तुतो वैलक्षण्याभावेन कथंनवविधत्वमित्याशंकायामा20 होपचारेणेति । नवभिः प्रकारैविचार्यमाणत्वादेव नवविधत्वं तेषां न तु वस्तुतो नवविधत्व
मिति भावः॥
तत्राद्यां सत्पदप्ररूपणामाह
गत्यादिमार्गणाद्वारेषु सिद्धसत्ताया अनुमानेनागमेन वा निरूपणं सत्पदप्ररूपणा ॥ 25 गत्यादीति । सत्ताभिधायकं पदं सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, विद्यमानार्था
भिधायिपदस्य तत्त्वकथनमिति भावः, असत्यप्यर्थे बाह्ये शशविषाणादिपदप्रयोगात् बाह्यार्थे