________________
मोक्षनिरूपणम् ] न्यायप्रकाशसमलते .
: २७७ : त्वात् । परापेक्षा ह्यसौ बुद्ध्यध्यवसायापेक्षत्वात् , बुद्धिप्रतिबिम्बितमर्थं पुरुषश्चतयत इति वचनात् । बुद्ध्यध्यवसितार्थानपेक्षत्वेऽनुभवस्य सर्वत्र सर्वदा सर्वस्य पुंसोऽनुभवप्रसङ्गात् , सर्वदा सर्वदर्शित्वापत्तस्तदुपायानुष्ठानवैयर्थ्यमेव स्यात् , यदि पुनरनुभवसामान्यमात्मनो नित्यमनुत्पत्तिमदेवेति मतं तदा ज्ञानादिसामान्यमपि नित्यत्वादनुत्पत्तिमद्भवेदिति तव हेतुरसिद्धः । न च ज्ञानादिविशेषाणामुत्पत्तिमत्वान्नासिद्ध इति वाच्यम् , 5 तीनुभवविशेषाणामप्युत्पत्तिमत्त्वाद्व्यभिचारापत्तेः । न चानुभवस्य न विशेषास्सन्तीति वाच्यं, वस्तुत्वविरोधात् । सकलविशेषरहितत्वे हि खरविषाणवदनुभवोऽवस्त्वेव भवेत् । न चात्मनानेकान्तः, तस्यापि सामान्यविशेषात्मकत्वादन्यथाऽवस्तुत्वापत्तेः । कालात्ययापदिष्टश्चोत्पत्तिमत्त्वहेतुः, ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वाच्चेतनत्वप्रसिद्धः, न च चेतनसंसर्गादचेतनस्यापि ज्ञानादेश्चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैवेति वाच्यम्, शरीरा- 10 देरपि चेतनत्वप्रतीतिप्रसङ्गात् चेतनसंसर्गाविशेषात् । न च शरीराद्यसम्भवी बुद्ध्यादेरात्मना संसर्गविशेष इति वाच्यम् , कथश्चित्तादात्म्यातिरिक्तस्य संसर्गस्याभावात् । ततो नाचेतना ज्ञानादयः स्वसंविदितत्वात् , अनुभववत्, ते स्वसंविदिताः परसंवेदनान्यथानुपपत्तेः, तथाचात्मस्वभावा ज्ञानादयः चेतनत्वादनुभववत्, इति न चैतन्यमात्रेऽवस्थानं मोक्षः, अनन्तज्ञानादिचैतन्यविशेषेऽवस्थानस्य मोक्षत्वप्रतीतेरिति ॥ नन्वत्यन्तज्ञान- 15 सन्तानोच्छेद एव मोक्षः, तथाहि बद्धस्य संसारिणो मोक्ष इति वक्तव्यं बन्धश्च रागादिभिः, स चैकान्तनित्य आत्मनि न संभवति विकारापत्तेः, तस्मान्नात्मनो बन्धो नवा मोक्षस्तयोरनुपपत्त्या च तादृशात्मनोऽभाव एव युक्तः, ज्ञानस्य कार्यतया विकारित्वेन रागादियोगेन बन्धसम्भवात् कथञ्चिद्भावनाबलेन तद्विगमाच्च मोक्ष उपपद्यते, अयमेव च तस्य मोक्षो यद्विनाश इति चेन्न, ज्ञानस्य क्षणिकत्वादुत्पत्यनन्तरं विनापि विनाशकं 20 बद्विनाशात् , न च रागादिभिर्ज्ञानक्षणस्य बन्ध आपादयितुं शक्यते, एकान्तनित्यस्येव एकान्तानियस्याप्यविकार्यतया रागादियोगवियोगासम्भवात् । ततो बन्धाभावात्कथं मोक्षः। ननु ज्ञानस्य तदसम्भवेऽपि तत्सन्तानस्यैकत्वादक्षणिकत्वाच्च रागादियोगाद्वन्धो भावनाधतिशयाच्च सन्तानानुत्पत्तिलक्षणो मोक्षश्च संभवति, सन्तानञ्च ज्ञानानामनादिः कार्यकारणप्रवाह इति चेन्न ज्ञानव्यतिरिक्तस्यैकस्याक्षणिकस्य परमार्थसातयाऽभ्युपगम्यमाने नामा- 25
१. अयं भावः वर्तमानज्ञानक्षणः कर्म बध्नन् न प्राग् बध्नीयात् असतो बन्धायोगात् न वा सह, सह. . भाविनोस्सव्यतरगोविषाणयोरिव तदसंभवात् नापि पश्चात्, उत्पादानन्तरं निरन्वयं ध्वंसेन द्वितीयादिक्षणावस्थासंभवेन तदनुपपत्तेरिति ॥ २. ननु मा भूत् एकैकशो ज्ञानक्षणानां बन्धो रागाद्युत्पादो वा, तत्सन्तानस्य त्वेकस्य सन्ततमनुवर्तमानस्यासौ स्यादिति शंकते नन्विति ॥