________________
: २७६ :
तत्त्वन्यायविभाकरे
[ दशमकिरणे
करणसंयोगजानाञ्च बुद्ध्यादीनां निवृत्तिम् , किन्तु कर्मक्षयहेतुकानां प्रशमसुखानन्तज्ञानादीनां निवृत्तिमेव निवारयामः, तथा च मुक्तौ कथञ्चिद् बुद्ध्यादिविशेषगुणानां निवृत्तिः कथञ्चिदनिवृत्तिर्व्यवतिष्ठते । न च ज्ञानत्वावच्छिन्न एवादृष्टान्तःकरणादिहेतुत्वान्मुक्तौ तदजन्य
ज्ञानाद्यनुपपत्तिरिति वक्तुं युक्तम् , परैरीश्वरज्ञानादिव्यावृत्तये जन्यत्वस्य कार्यतावच्छेदककोटौ 5 दानात्, तस्य च ध्वंसप्रतियोगिरूपत्वेन । ध्वंसाप्रतियोगिज्ञानादीनां मुक्तावनुपपत्त्य
भावात् । न च जन्यत्वेन ज्ञानादीनां मुक्तावपि ध्वंस आवश्यक इति वाच्यम् । जन्यत्वेन ध्वंसहेतुत्वे मानाभावात्, प्रतियोगिनो विशिष्य हेतुत्वेऽपि मुक्तज्ञानादीनां ध्वंसाहेतुत्वकल्पन एव लाघवात् । न चोपयोगस्य संसारदशायामन्तर्मुहूर्तादिकालनाश्यत्वदर्शनान्मुक्तावपि
कालान्नाशप्रसङ्ग इति वाच्यम् । केवलज्ञानादीनां कालानाश्यत्वादुपयोगस्य क्षणिकत्वेऽपि 10 प्रवाहतस्तदानन्त्यस्य च सिद्धान्तसिद्धत्वात् । वस्तुतस्तु अदृष्टान्तःकरणसंयोगकर्मक्षयादयो न
ज्ञानोत्पत्तौ निमित्तभूताः । अपि तु आविर्भावतिरोभावावेति पूर्वमेवोक्तम् । न चात्मनो बुद्धयादिगुणाः कदाचिदुच्छिद्यन्ते, सन्तानरूपेण जायमानत्वात् प्रदीपवत् , अमीषां जन्मनो निरन्तरं सर्वानुभवसिद्धत्वान्नासिद्धिः, साध्यविपर्ययेण व्याप्तेरसिद्धया न विरुद्धः, विपक्षे
गगनादौ हेतोरसत्त्वेन च नानैकान्तिक इति वाच्यम् । विकल्पासहत्वात् , सन्तानपदेन पितृ15 पुत्रपौत्रादिक्रमेण पुरुषसम्प्रदायो गोत्राद्यपरनामा सन्तानो विवक्षितः, उत उपादानोपादेय
भावेनोत्तरोत्सरकार्यपरम्परोत्पादः, अथवा सामान्येन सजातीयकार्यकारणप्रवाह इति, तत्र नाद्यस्तस्य पुरुषेष्वेव प्रसिद्धया गुणादौ तदसम्भवात् । न द्वितीयः, तेषामात्मोपादेयत्वेन स्वीकृततया परस्परमुपादानोपादेयभावानङ्गीकारात् । नान्त्यो बुद्ध्यादिभ्यो विजातीयाना
मिच्छादीनामप्युत्पत्तिदर्शनेन सजातीयकार्यकारणोत्पत्त्यभावात् । स्मृत्यादीनाञ्च भवदभिप्राये20 णाप्रमाणतया विजातीयानामपि सम्यग्ज्ञानादिभ्यसंस्कारोद्वोधद्वारेणोत्पत्तेः । पाकजपरमाणु
रूपादीनाञ्चैवंविधसन्तानरूपेणोत्पत्तावपि भवताऽत्यन्तोच्छेदानभ्युपगमात्, संसारस्य चैवं रूपस्याप्यत्यन्तोच्छेदाभावेन व्यभिचारात् , मुक्तावनित्यबुद्ध्मादीनामत्यन्तोच्छेदस्यास्माभिरपि स्वीकृतत्वेन सिद्धसाधनाच्च ॥ तथा स्वस्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष इति कपिल__ मतमपि प्रमाणबाधितं, चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपेऽवस्थानस्य मोक्षत्वसाधनात् । न 25 ह्यनन्तज्ञाना दिकमात्मनोऽस्वरूपं सर्वज्ञत्वादिविरोधात् । प्रधानस्य सर्वज्ञत्वादिस्वरूपं
नात्मन इति चेन्न, तस्याचेतनत्वादाकाशादिवत् , ज्ञानादेरप्यचेतनत्वादचेतनप्रधानस्वभावत्वं युक्तमेवेति चेत्कुतस्तदचेतनत्वसिद्धिः, अचेतना ज्ञानादय उत्पत्तिमत्त्वाद् घटवदित्यनुमानादिति चेन्न, हेतोबुद्धिनिष्ठप्रतिबिम्बहेतुबिम्बचैतन्यलक्षणेनानुभवेन व्यभिचारात् , तस्य चेतनत्वेऽप्युत्पत्तिमत्त्वात् । न च कथमुत्पत्तिमाननुभव इति वाच्यम् , बुद्ध्यादिवत्परापेक्ष