SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ मोक्षनिरूपणम् ] न्यायप्रकाशसमलङ्कृते । जनकत्वान्न दोष इति वाच्यम्, तथाभूतप्रदीपपरिणत्यजनकत्वे शरावादेस्तदनावारकत्वप्रसङ्गात् । व्यवहारनयेन तु स्वीकृतपुंस्त्रीशरीरस्यात्मनस्सम्यग्ज्ञानक्रियाभ्यां साध्यः कर्मणां क्षयो मुक्तिरिष्यते, अन्वयव्यतिरेकाभ्यां तयोस्तं प्रति कारणत्वात् न च कर्मक्षयस्य मुक्तिds पुमर्थत्वं स्यादिति वाच्यम्, मुक्तेरसाक्षात् दुःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थ - त्वविरोधात् । दुःखे हि द्वेषे तद्धेतून नियमेन द्वेष्टि ततस्तन्नाशहेतुषु ज्ञानादिषु प्रवर्त्तते, 5 ततो नाशोपायेच्छा जायत इति । न च सम्यग्ज्ञानक्रियाभ्यामित्युक्तं तन्न युक्तं सम्यग्दर्शनस्यापि हेतुत्वादिति वाच्यम् द्वयोरप्यनयोर्ज्ञानदर्शनयोस्सहचारित्वात् । ननु स्वीकृतपुंस्त्रीशरीरस्यात्मन इत्युक्तं तत्र स्वीकृतपुंशरीरस्य तु सम्यग्ज्ञानक्रियासम्भवाद्युक्तं मोक्षाधिकारित्वं स्त्रीणान्तु न तथा, तासां ज्ञानदर्शनयोस्संभवेऽपि चारित्रासंभवात्, वस्त्र परिभोगस्यावश्यकत्वात्, अन्यथा विवृताङ्गयस्ताः पुरुषाणामभिभवनीया लोके गर्हणीयाश्च भवेयुः, 10 वापरिभोगे च परिग्रहवत्वेन संयमाभाव एव स्यादिति चेन्न, वस्त्रसंसर्गमात्रस्य परिग्रहत्वासंभवात्, मूर्च्छाविशिष्टस्यैव तादृशस्य परिग्रहत्वात्, अन्यथा भरतचक्रवर्त्तिनो निष्परि महत्ववर्णनं केवलोत्पादश्चासंगतं स्यात्, जिनकल्पप्रतिपन्नस्य कस्यचित् साधोस्तुषारकणानुषके शीते पतति सति केनाप्यविषद्यमद्य शीतमिति विचिन्त्य तस्य शिरसि वस्त्रे प्रक्षिप्ते परिमहत्वापातप्रसङ्गात्, तासामपि सम्यग्दर्शनादिप्रकर्षसम्भवाञ्चेति दिकू । स च 15 सम्यग्ज्ञानक्रियाभ्यां भवति, क्रियारहितस्य ज्ञानस्य तद्रहितायाः क्रियाया वाऽसमर्थत्वात्, न च प्रत्येकं कारणताविरहे कथं समुदाये कारणत्वमिति वाच्यम्, प्रत्येकं देशोपकारित्वात् समुदायस्य च सम्पूर्णोपकारित्वादिति दिक् || : २७५ : ननु धर्माधर्मयोर्मुक्तौ तावदात्यन्तिकी निवृत्तिर्युक्ता, अन्यथा तदनुपपत्तेः, तन्निवृत्तौ च तत्फलभूतानां बुद्ध्यादीनामपि निवृत्तिरावश्यकी निमित्तापाये नैमित्तिकस्याप्य पायात्, मुक्तस्यात्मनोऽन्तःकरणसंयोगाभावेन न तत्कार्यस्य बुद्ध्यादेरुत्पत्तिः, तथाचाशेषविशेषगुणनिवृत्तिर्मुक्तौ सिद्ध्यत्येवेति चेनेष्टापत्तेः, को हि निवारयति मुक्तावदृष्टहेतुकानां आत्मान्त: १. ननु ज्ञानमेव प्रधानं मोक्षकारणं न क्रिया, तस्या अपि ज्ञानकार्यत्वात् ज्ञानं हि मोक्षं प्रति कारणं, तदपान्तरालभाविनां सर्वसंयमक्रियादीनामपि तस्मात्तदेव मोक्षं प्रति प्रधानं कारणमिति चेन ज्ञानस्य परम्परयोपकारकत्वे क्रियाया एवानन्तर्येण प्रधानकारणत्वापत्तेः अव्यवधानेन यदुपकारकं तस्यैव प्रधान कारणत्वात् युगपत्कार्योत्पत्तौ द्वयोरप्यनुकूलत्वे द्वयोरपि प्राधान्यस्यौचित्यात्, अपान्तराले भवन्स्या अपि क्रियाया मोक्षासाधनत्वे केवलादपि ज्ञानान्मोक्षापत्तेः, अकारणस्यानपेक्षणीयत्वात् । द्वयोरपि सहचारित्वे च कथमेकं ज्ञानं कारणं भवेन्न क्रिया, न च क्रियैव कारणं भवतु न ज्ञानमिति वाच्यम्, तथासत्युन्मत्तादिक्रिया'तोऽपि मोक्षापत्तेः, तस्माज्ज्ञानक्रियाभयात् मुक्तिरिति भावः ॥ 20
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy