________________
: २७४ :
तस्वन्यायविभाकरे
[ दशमकिरणे
नाशः कस्यापीष्टः । न च संसारः कर्मकृतः, ततस्तन्नाशे संसारो नश्यति तथा तन्नाशे च जीवस्यापि नाश एवेति वाच्यम्, कारणव्यापकयोरेव कार्यव्याप्यनिवर्त्तकत्वात् संसारश्च कर्मकार्यमतस्तन्नाशे तन्नाशो युक्तः, जीवस्तु तु न कर्मकृतः, अनादिकालप्रवृत्तत्वात् अतः कर्मनाशे न तस्य नाशः । विकारानुपलम्भाच्च न सर्वथा विनाशधर्मा, दृश्यन्ते हि मुगरा5 दिना ध्वस्तस्य घटस्य कपाललक्षणा विनाशधर्माः, न तथा जीवस्यातो नित्यत्वं तद्धर्मत्वाश्च मोक्षस्यापि नित्यत्वम् ॥ ननु स्वात्मन्यवस्थानमित्यनेन ज्ञानादिमत्त्वं मुक्तस्योक्तं तन्न सङ्गच्छते ज्ञानकारणाभावात् ज्ञाने हि शरीरेन्द्रियादिकं कारणं मुक्तस्य तदभावान्न ज्ञानं भवितुमर्हतीति चेन्न व्याध्यसिद्धेः, न हि शरीरेन्द्रियादीनि ज्ञानस्य कारणं व्यापकं वा, येन तन्निवृत्तौ तस्यापि निवृत्तिः स्यात्, ज्ञानस्यात्मस्वभावत्वेन शरीरादिनिवृत्तावपि न तन्निवृत्तिः, तस्मादस्ति 10 मुक्तो जीवस्स च ज्ञानरहित इति विरुद्धं वचनमेव । स्वात्मनि देहे प्रत्यक्षानुभवादेव जीवस्य ज्ञानस्वरूपत्वसिद्धेः, इन्द्रियव्यापारोपरमेऽपि तद्व्यापारोपलब्धार्थानुस्मरणादिन्द्रियवेऽपि चान्यमनस्कतायामनुपलम्भात् । अदृष्टाश्रुतानामप्यर्थानां तथाविधक्षयोपशमपाटवाद्वयाख्यानाद्यवस्थायां कदाचित्स्फुरणाच्च तस्मात्सर्वदा प्रकाशमय एव जीवः परं संसार्यवस्थायां छद्मस्थः किञ्चिन्मात्रमवभासयति क्षीणाक्षीणावरणच्छिद्रैश्चावभासनात्, सच्छिद्र कुड्याद्यन्त15 रितप्रदीपवत् । मुक्तावस्थायाश्च सर्वावरणक्षयात्सर्वमर्थं प्रकाशयति, विगतकुड्याद्यावरणप्रदी
I
पवत्, न तु जीवस्य तदानीं प्रकाशाभाव:, इति सिद्धं तदानीं ज्ञानस्वरूपत्वम् । एवं सुखादिस्वरूपत्वमपि भाव्यम्॥ अत्र कृत्स्नकर्मविमुक्तयाऽऽत्मनस्स्वात्मन्यवस्थानमित्यनेन सङ्ग्रहनयेन मुक्तिरुक्ता, तेन ह्यावरणोच्छिया व्यङ्गयं सुखं मुक्तिरिष्यते, संसारदशायां जीवस्वभावस्य सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपावरणेनाच्छाद्यमानत्वात् प्रदीपस्यापवरकावस्थितपदार्थप्रका20 शकत्वस्वभावस्येव तदावारकबृहच्छरावादिना । तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्टप्रकाशस्वभावोऽयत्नसिद्ध एवेतिं । न च शरीराद्यभावे ज्ञानसुखादीनामभावप्रसङ्ग इति वाच्यमप्रयोजकत्वात्, अन्यथा शरावाद्यभावे प्रदीपादेरभावप्रसङ्गस्स्यात्, न च शरावादेः प्रदीपाद्य
१. आत्मा हि सामान्यतो निखिललोकालोकवर्तिपदार्थानां सम्यक् परिच्छेदनिपुणः परं च कर्मपटलावृततज्ज्ञानत्वादस्मदादीनां विषयेषु संशयाऽज्ञानविपर्यया अतीतादिविप्रकृष्टादिपदार्थेष्वसम्यक्प्रतीतिश्चाविर्भवति, निःशेषतया ज्ञानावरणादिकर्ममलापगमे च प्रतिबन्धकाभावेन निखिलपदार्थज्ञानस्वभावतायां न कोऽपि विरोध इति भावः ॥ २. एवं सुखस्वरूपोऽप्यात्मा, यथा संसारिणः सुखदुःखे परस्परानुषक्ते न तथा मुक्तात्मनः, दुःखमूलस्य शरीरस्याभावात् आत्मस्वरूपत्वाच्च सुखस्य । न चेदं सुखं दुःखाभावरूपम्, मुख्ये बाधकाभावात् रोगान्मुक्तोऽहं सुखी जात इत्यादौ सुखीति पदस्य पौनरुक्त्यापत्तेः ईदृश जडरूपात्मतत्त्वस्य मोक्षस्य पुंसामुपादेयत्वासंभवात् सांसारिक सुखस्य दुःखरूपत्वादेवात्यन्तिकसुखविशेषलिप्सयैव मुमुक्षूणां प्रवृत्तेचेत्यभिप्रायेणाह एवं सुखादिस्वरूपत्वमपि भाव्यमिति ॥