________________
अन्तरायः ]
म्यायप्रकाशसमलङ्कृते ।
: २७१ :
विसंवादो मिथ्यादर्शनं मायाप्रयोगो पिशुनताऽस्थिरचित्ततादयश्चाशुभस्य हेतैवः । कायवा मनोऋजुत्वमविप्रलम्भो धार्मिकदर्शनसम्भ्रमस्संसारभीरुता प्रमादवर्जनं सद्भावार्पण सम्यक्त्वमार्जवादयश्च शुभस्य हेतव इति ॥
अथ गोत्रमाख्याति -
उच्चनीचजातिव्यवहारहेतुः कर्म गोत्रम् ||
उच्चेति । गूयते संशब्द्यत उच्चावचैश्शद्वैर्यत् तद्गोत्रं, उच्चनीचकुलोत्पत्तिलक्षणपर्याय विशेषवेद्यं कर्म, पूज्योऽयमपूज्योऽयमित्यादिव्यपदेशरूपां गां त्रायतेऽर्थाविसंवादेन पालयति यत्तद् गोत्रम् | तथाचोश्च्चनीचान्यतरविषयकव्यवहारासाधारणकारणत्वे सति कर्मत्वं लक्षणम् । उभयगोत्रसङ्ग्रहायान्यतरेति । तिर्यग्गत्यादावतिव्याप्तिवारणायासाधारणेति । तत्र परनिष्ठयथार्थायथार्थान्यतरदोषोद्भावनेच्छा, स्वनिष्ठयथार्थायथार्थान्यतरगुणोद्भावनाभिप्रायः, सदस- 10 द्गुणच्छादनोद्भावने जाति कुलरूपबलश्रुताज्ञैश्वर्यतपोमदपरावज्ञानोत्प्रासन कुत्सनादयो नीचे - र्गोत्रस्य कारणनि । आत्मनिन्दापरप्रशंसे गुणोत्कृष्टेषु विनयेन वृत्तिर्विज्ञानादिभिरुत्कृष्टस्यापि सतस्तत्कृतमदविरहो जातिकुलरूपबलवीर्यज्ञानैश्वर्यतपोविशेषवतोऽपि स्वोत्कर्षाणि - धानं परावज्ञानौद्धत्यनिन्दास्त कोम हास परपरिवादनिवृत्तिरित्यादय उच्चैर्गोत्रस्य हेतवः ॥
अथाष्टममन्तरायकर्म लक्षयति
5
१. मनोवाक्कायवकत्वं परेषां विप्रतारणम् । मायाप्रयोगोमिथ्यात्वं पैशुन्यं चलचित्तता ॥ सुवर्णादि प्रतिच्छन्दकरणं कूटसांक्षिता । वर्णगन्धरसस्पर्श न्यिथोपपादनानि च । अङ्गोपाङ्गच्यावनानि यंत्रपंजरकर्म च । कूदमानतुलाकर्मान्यनिन्दाऽत्मप्रशंसनम् ॥ हिंसानृतस्तेयाब्रह्ममहारम्भपरिग्रहाः ॥ परुषा सभ्यवचनंशुचिवेषादि नामदः ॥ मौखर्याक्रोशौ सौभाग्योपघाताः कार्मणक्रियाः । परकौतूहलोत्पादः परहास्यविडम्बने ॥ वेश्यादीनामलंकारदानं दावाग्निदीपनम् । देवादिव्याजाद्गन्धादिचौर्य तीव्र कषायता ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् | अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आश्रवः । एतएवान्यथारूप स्तथा संसारभीरुता । प्रमादहानं सद्भावार्पण क्षान्त्यादयोऽपि च । दर्शने धार्मिकाणाञ्च संभ्रमः स्वागतक्रिया । परोपकारसारत्वमाश्रवाः शुभनामनि ॥ २. परस्य निन्दावज्ञोपहासास्सद् गुणलोपनम् । सदसद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ सदसद्गुणशंसा च स्वदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचैगोत्राश्रवा अमी ॥ नीचैत्र । श्रवविपर्यासो विगतगर्वता । aratयचित्तैर्विनय उचैर्गोत्राश्रवा अमी ॥
15
आत्मनो वीर्यादिप्रतिबन्धकं कर्मान्तरायकर्म ॥
आत्मन इति । दातृप्रतिगृहीत्रोरन्तर्मध्ये एत्योदयद्वीर्यं प्रत्युत्पन्नं वस्तु यदुपहन्यते आगामिनो वा लब्धव्यस्य मार्ग उपहन्यते च तदन्तरायं कर्मेत्यर्थः । आदिना भोगोपभोग1 दानलाभा गृह्यन्ते । वीर्यादीनां विघ्नकरणं ज्ञानप्रतिषेधसत्कारोपघातादयोऽस्य हेतवः । अत्र प्रदोषादयो विशेषहेतवो ज्ञानावरणादीनां प्रदेशबन्ध एव हेतव इति न नियमः, एभि - 20