________________
. सरवन्यायविमाकरे झानावरणे बध्यमाने युगपदितरेषामपि कर्मणां बन्धात्तथापि अनुभागविशेषे नियमेन हेतुतया विशिष्य हेतवो दर्शिताः ॥ .
अथ मूलकारो मूलप्रकृतीनां स्थितिमाह
ज्ञानदर्शनावरणवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोटि5 कालं यावत्, मोहनीयस्य सप्ततिसागरोपमकोटीकोटिकालं यावत्, विंशतिसागरोपमकोटीकोटिकालं यावन्नामगोत्रयोः, आयुषश्च त्रयस्त्रिंशत्सागरोपमकालं यावत्परास्थितिर्बोध्या। एवमेव वेदनीयस्य द्वादशमुहूर्ता, नामगोत्रयोरष्टमुहूर्ता, शेषाणाश्चान्तर्मुहूर्तमपरा स्थितिरिति ॥
॥ इतिबन्धतत्त्वम् ॥ ज्ञानेति । त्रिंशदिति । उत्कृष्टसंक्लेशे स्थितस्य मिथ्यादृष्टेरियं परास्थितिः । 10 सप्ततिसागरोपमेति । मिथ्यात्वापेक्षयेयम् । सम्यमिथ्यात्वस्योत्कर्षतोऽप्यन्तर्मुहूर्तमान
त्वात् , कषायस्य चत्वारिंशत्सागरोपमकोटिकोटिप्रमाणत्वात् । नोकषायाणाश्च विंशतिसागरोपमकोटीकोटिप्रमाणत्वात् । विंशतीति । नरकतिर्यग्गत्येकेन्द्रियादिजात्यपेक्षयेयम् । नीचैर्गोत्रापेक्षया च गोत्रस्य तावती स्थितिः । त्रयस्त्रिंशदिति । देवनरकायुषोऽपेक्षयेयम् । तत्र ज्ञानावरणादिचतुर्णामबाधाकालश्च त्रीणि चर्मसहस्राणि; एतद्धीना कर्मस्थितिरनुभवयोग्या-कर्मदलिकनिषेकः, ज्ञानावरणीयादिकं हि कर्म उत्कृष्टस्थितिकं बद्धं सद्वन्धसमयादारभ्य त्रीणि वर्षसहस्राणि यावन्न किञ्चिदपि जीवस्य बाधां स्वोदयत उत्पादयति, तावत्कालमध्ये दलिकनिषेकस्याभावात् तत ऊर्ध्वं हि दलिकनिषेकः, निषेको नाम कर्मपुद्गलानामनुभागरचना, स निषेकः प्रथमस्थितौ प्रभूतो द्वितीयस्थितौ विशेषहीन इत्येवं
क्रमेण यावञ्चरमसमयं रचना । द्वादशमुहूर्ता इति, सातवेदनीयस्य सकषायस्येदं, इतरस्य 20 तु प्रथमसमये बन्धो द्वितीयसमये वेदनं तृतीयसमये त्वकर्मीभवनमिति, अष्टमुहूर्ता इति,
यशःकीर्युच्चैर्गोत्रापेक्षयेदम् । शेषाणामिति ज्ञानावरणदर्शनावरणमोहनीयायुरन्तरायाणामित्यर्थः। पञ्चानां ज्ञानावरणानां चक्षुर्दर्शनावरणादीनां चतुर्णा दर्शनावरणानां उदयापेक्षया सम्यक्त्वसम्यमिथ्यात्वयोस्संज्वलनलोभस्य पञ्चानामन्तरायप्रकृतीनां तिर्यगायुषश्चापेक्षयेयं
स्थितिरिति । इतरासान्तु प्रकृतीनां जघन्योत्कृष्टस्थितयस्तत्तत्प्रकृतिनिरूपण एवोक्ता इति 25 दिक् । अथ बन्धतत्त्वं निगमयतीतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण लब्धिसूरिणा विनिर्मितस्य तत्त्व. न्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां बन्धनिरूपणनामा
॥ नवमः किरणः समाप्तः॥...