________________
: २७०: तत्त्वन्यायविभाकरे
[ नवमकिरणे गतिचतुष्टयेति । देवतिर्यामनुजनरकरूपगतिचतुष्टयेत्यर्थः । स्वस्वकृतकर्मभिः प्राप्तनारकादिगतितो निर्गन्तुमिच्छतोऽपि जन्तोः प्रतिबन्धकतया यदा गच्छति न तु निष्कमणायावकाशं ददाति स्थितिपर्यन्तश्च तत्रैव तं स्थापयति तदायुःकर्मेत्यर्थः । गतिचतुष्टयस्थितिप्रयोजकत्वे सति कर्मत्वं लक्षणम् । प्रभूतप्राणिप्राणव्यपरोपणमनवरतखण्डनीपेषणी5 चुल्ल्युदकुम्भप्रमार्जनीव्यापारो बाह्याभ्यन्तरवस्तुषु ममत्वं कुणपाहाराभ्यवहारित्वं कषा
योदयात्तीव्रपरिणामो मिथ्यादर्शनश्लिष्टाचारत्वमुत्कृष्टमानत्वं शैलभेदसदृशरोषस्तीत्रलोभानुरागपरपरितापप्रणिधानवधबन्धनाभिनिवेशानृतवचनप्रस्वादनाविरतमैथुनोपसेवास्थिरवैरावशेन्द्रियनिरनुग्रहस्वभावकृष्णलेश्यापरिणामरौद्रध्यानादयो नरकायुषो हेतवः । मनोवा
कायशठत्वमिथ्यात्वावष्टम्भाधर्मदेशनाकूटकर्मनीलकापोतलेश्यापरिणामार्तध्यानादयस्तियंगा-- 10 युषो हेतवः । अल्पारम्भपरिग्रहस्वभावमार्दवार्जवमिथ्यादर्शनालिङ्गितातिविनीतता वालु
काराजिसदृशरोषस्वागताधभिलाषलोकयात्राऽनुग्रहौदासीन्यगुरुदेवतातिथिपूजासंविभागशीलताकापोतलेश्यापरिणामधर्मध्यानादयो मनुष्यायुषो हेतवः । सरागसंयमो देशविरतिरकामनिर्जराबालतपःकल्याणमित्रसम्पर्कधर्मश्रवणतपोभावनापात्रदानतपनलेश्यापरिणामाव्यक्तसा.
मायिकाविराधितसम्यग्दर्शनादयो दैवायुषो हेतव इति ॥ 15 सम्प्रति नामकर्माऽऽचष्टे
नरकगत्यादिनानापर्यायप्रयोजकं कर्म नामकर्म ॥
नरकेति । यद्धि जीवं नारकोऽयं तिर्यग्योनिकोऽयं मनुजोऽयं देवोऽयं एकेन्द्रियोऽयं द्वीन्द्रियोऽयं त्रीन्द्रियोऽयं चतुरिन्द्रियोऽयं औदारिकोऽयं वैक्रियोऽयं हस्तवानयं पादवानयमित्यादिव्यपदेशैरनेकधा नामयति-करोति तन्नामकर्मेत्यर्थः । कायवाङमनःकौटिल्यं
. १. पंचेन्द्रियप्राणिवधो बहूवारंभपरिप्रहौ। निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता । कृष्णनीलकपोताश्च लेश्या अनृतभाषणम् ॥ परद्रव्यापहरणं मुहुर्मेथुनसेवनम् । अवशेन्द्रियता चेति नरकायुष आश्रवाः ॥ उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आर्तध्यानं सशल्यत्वं मायारंभपरिग्रहौ ॥ शीलव्रते सातिचारो नीलकापोतलेश्यता । अप्रत्याख्यानकषायास्तिर्यगायुष आश्रवाः ॥ अल्पो परिमहारंभी सहजे मार्दवाजवे । कापोतपीतलेश्यात्वं धर्मध्यानानुरागिता । प्रत्याख्यानकषायत्वं परिणामश्च मध्यमः । संविभागविधायित्वं देवतागुरुपूजनम् ॥ पूर्वालापप्रियालापौ ज्ञानप्रज्ञापपनीयता। लोकयात्रासु माध्यथ्यं मानुषायुष आश्रवाः ॥ सरागसंयमो देशसंयमोऽकामनिर्जराकल्याणमित्रसंपर्को धर्मश्रवणशीलता ॥ पात्रे दानं तपः श्रद्धा रत्नत्रयाविराधना । मृत्युकाले परीणामो लेश्ययोः पद्मपीतयोः ॥ बालं तपोऽग्नितोयादि साधनोल्लंबनानिच । अव्यक्तसामायिकतालं देवस्यायुष आश्रवाः॥ ...