________________
आयु:].
न्यायप्रकाशसमलते - मोहनीयं कर्म स्वरूपयति
रागद्वेषादिजनकं कर्म मोहनीयम् ॥ __ रागेति । मोहयति सदसद्विकलं करोत्यात्मानमिति मोहनीयम् । मोहाय-हेयोपादेयविवेकाभावाय चित्तव्याकुलतायै मिथ्यात्वकषायविषयाभिलाषाय वा योग्यं मोहनीयम् । अत एवात्मा रक्तो द्विष्टश्च भवतीत्याशयेन रागद्वेषादिजनकत्वे सति कर्मत्वं लक्षणमुक्तं, 5 यावदेव हि मोहनीयं तावदोषाः, तत्क्षये चावश्यम्भावी कर्मक्षयोऽतो रागद्वेषयोः प्रधान कारणमिदम् । आदिना कामगुणा ग्राह्याः, वेदस्य मोहनीयान्तःपतितत्वात् । केवलिनां श्रुतस्य संघस्य धर्मस्य देवानाञ्चावर्णवादा दर्शनमोहनीयस्य हेतवः । केवलिनां विषयेऽवास्तविकदोषोद्भावनं, असभ्यवाक्प्रयोगो निन्दाप्रकटनमित्यादयः केवल्यवर्णवादाः । तीर्थकरोपदिष्टयथास्थितज्ञेयानुसारिणि साङ्गोपाङ्गे श्रुतेऽविदग्धप्राकृतभाषाप्रचुरमिदं व्रतकायप्राय- 10 श्चित्तप्रमादोपदेशपुनरुक्तताबहुलं कुत्सितापवादप्रायमित्यादिभाषणं श्रुतावर्णवादः । चतुविधे संघे संयतादिविषये सचित्तादिव्यवहारपरायणाः परिपेलवबाह्यशौचाचारा जन्मान्तरकृतकर्मोदयजन्यकेशोल्लुम्चनातापनादिदुःखानुभविनः कलहकारिणोऽसहिष्णवः प्रागदत्तदाना भूयोऽपि दुःखिता एवं भविष्यन्तीत्येवंरूपा अवर्णवादाः, एवमेव श्रावकप्रभृतिसंघादिषु भाव्यम् । क्रोधादिकषायोदयादात्मनश्शब्दादिविषयेषु गाादयस्तीव्रपरिणामा- 15 श्चारित्रमोहनीयस्य हेतवो भाव्याः ।
अथायुषस्स्वरूपमाहगतिचतुष्टयस्थितिप्रयोजकं कर्म आयुः ॥
१. वीतरागे श्रुते संघे धर्म सर्वसुरेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामिता। सर्वज्ञसिद्धदेवापहवो धार्मिकदूषणम् । उन्मार्गदर्शनानाऽऽग्रहोऽसंयतपूजनम् । असमीक्षितकारित्वं गुर्वादिष्ववमानना। इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥ २. कषायोदयतस्तीवः परिणामो य आत्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः ॥ उत्प्रासनं सकंदर्पोपहासोहासशीलता, बहुप्रलापो दैन्योक्तिहस्यिस्यामी स्युराश्रवाः, देशादिदर्शनौत्सुक्यं चित्रे रमणखेलने । परचित्तावर्जना चेत्याश्रवाः कीर्तिता रतेः॥ असूयापापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्सहनं चारतेराश्रवा अमी॥ परशोकाविष्करणं खशोकोत्पादशोचने । रोदनादिप्रसक्तिश्च शोकस्यैते स्युराश्रवाः ।। स्वयं भयपरीणामः परेषामथ भापनम् । त्रासनं निदेयत्वं च भयं प्रत्याश्रवा अमी ॥ चतुर्वर्णस्य संघस्य परिवादजुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायां स्युराश्रवाः ॥ ईर्ष्या विषादगाध्यै च मृषीवादोऽतिवक्रता । परदाररतासक्तिः स्त्रीवेदस्याश्रवा इमे ॥ स्वदारमात्रसंतोषोऽना मन्दकषायता । अवक्राचारशीलत्वं पुवेदस्याश्रवा इति ।। स्त्रीपुंसानङ्गसेवोग्राः कषायास्तीवकामना । पाखंडि. स्त्रीव्रतभंगः षंडवेदाश्रवा अमी ॥ साधूनां गर्हणा धर्मोन्मुखता विघ्नकारिता । मधुमांसविरतानामविरत्यभिवर्णनम् ॥ विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं तथा चारित्रदूषणम् ॥ कषायनोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य सामान्यनाश्रवा अमी॥