________________
:२६८ : तत्त्वन्यायविभाकरे
[ नवमकिरणे . तदावरणकारणं कर्मेत्यर्थः । वस्तुनिष्ठसामान्यविषयकबोधावरणकारणत्वे सति कर्मत्वं लक्षणम् ॥ ज्ञानदर्शनावरणयोरालस्यस्वपनशीलतानिद्रादरप्राणातिपातादयोऽपि हेतवोऽवसेयाः ।।
वेदनीयं लक्षयति
सुखदुःखानुभवप्रयोजकं कर्म वेदनीयम् । . 5 सुखेति । यद्यपि वेदनीयत्वमनुभवयोग्यत्वं तञ्च सर्वकर्मणां तथापि पङ्कजादिशब्दवदस्य
शब्दस्य रूढिविषयत्वात्सातासातरूपमेव कर्म वेदनीयमुच्यते शास्त्रव्यवहारात् । अत एव चानुभवप्रयोजकमित्यनुक्त्वा सुखदुःखानुभवप्रयोजकमित्युक्तम् । तत्र दुःखशोकतापाक्रन्दनवधपरिदेवनानि स्वपरोभयस्थान्यसद्वेद्यस्य भूतव्रत्यनुकम्पादानसरागसंयमादियोगक्षान्ति.
शौचानि सद्वेद्यस्य हेतवः । विरोधिद्रव्योपनिपातादभिलषितवियोगादनिष्टश्रवणान्निष्ठुर10 श्रवणादात्मनः पीडालक्षणः परिणामो दुःखम् । अनुग्राहकबान्धवादिसम्बन्धविच्छेदे
वैक्लव्यविशेषः शोकः । परीवादपरिभवपरुषवचनादिश्रवणनिमित्तापेक्षः कलुषान्तःकरणस्य तीव्रानुशयपरिणामस्तापः । परितापजन्याश्रुपातप्रचुरविलापाङ्गविकाराघभिव्यङ्गयमाक्रन्दनम् । प्राणिप्राणवियोजनं वधः । संक्लेशप्रवणं स्वपरानुग्रहाभिलाषविषयमनुकम्पा
प्रचुरं परिदेवनम् । यद्यपि शोकादयस्सर्वे दुःखजातीया - पत्र तथापि यथा गौरित्युक्त 15 अनितिविशेषे तत्प्रतिपादनाय खण्डमुण्डशुक्लायुपादानं क्रियते तथा दुःखमित्युक्ते विशेषा
ज्ञानात्कतिपयविशेषप्रदर्शनेन तद्विवेकप्रतिपत्तये शोकादीनामुक्तिर्बोध्या । एतानि च दुःखा. दीनि कदाचित् क्रोधाद्याविष्टेनात्मना स्वस्मिन् कषायवशात्कदाचित्परस्मिन् जनयति कदाचिच्चाधमर्णसमवाये सत्युत्तमर्णस्य तन्निरोधपरस्य भुजिक्रियानिवृत्तावुभयत्र क्षुत्कृतानि
दुःखादीनि सम्भवन्ति । आयुर्नामगोत्रोदयवशाद्भवन्तीति भूतानि प्राणिनः, अहिंसादिव्रता20 भिसम्बद्धाः व्रतिनस्तेष्वनुग्रहार्दीकृतचेतसोऽनुकम्पनमनुकम्पा । परानुग्रहबुद्ध्याऽऽत्मीयवस्त्वतिसर्जनं दानम् । संज्वलनकषायसहवर्तिनः पुरुषस्य प्राणिवधाद्युपरतिस्सरागसंयमः, आदिना संयमासंयमाकामनिर्जराबालतपोयोगा ग्राह्याः। अनात्यन्तिकीविरतिस्संयमासंयमः। विषयनिवृत्तिश्चात्माभिप्रायेणाकुर्वतः पारतन्त्र्याद्भोगनिरोधोऽकामनिर्जरा । यथार्थ
प्रतिपत्त्यभावादज्ञानिनस्तपो बालतपः। लोकाभिमतनिरवद्यक्रियानुष्ठानं योगः। मनो25 वाकायैर्धर्मप्रणिधानात्क्रोधनिवृत्तिः क्षान्तिः । लोभतृष्णादिभिरुपरमश्शौचमित्येवं कारण
स्सद्वेद्यं भवतीति ॥
१..दुःखशोकवधास्तापक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः ॥ २. देवपूजागुरूपास्तिपात्रदानदयाक्षमाः । सरागसंयमो देशसंयमोऽकामनिर्जरा। शौचं बालतपश्चेति सद्वेद्यस्य स्युराश्रवाः॥