________________
- दर्शनावरणम् ]
न्यायप्रकाशसमलङ्कृते
सत्तायान्त्विति | सत्तायान्तु चिन्त्यमानायां बन्धन पञ्चकसंघातन पञ्चकवर्णादिषोडशक संयोज्य प्रकृतीनामष्टचत्वारिंशं शतं विज्ञेयम् । यदा तु पुनर्गर्गर्षिशिवशर्मप्रभृत्याचार्याणां तेनाष्टपचाशदधिकं प्रकृतिशतं सत्तायामधिक्रियते तदा बन्धनानि पञ्चदश विवक्ष्यन्ते ततोऽष्टचत्वारिंशदधिकस्य प्रकृतिशतस्योपरिबन्धनगततादृशप्रकृतयोऽधिकाः प्राप्यन्ते तदा भवत्यष्टपञ्चाशदुत्तरं प्रकृतिशतमितिभावः । तदेतत्सर्वं कर्मग्रन्थादौ दर्शितमित्याह विवृता 5 इति, श्रीविजयदेवेन्द्रसूरि महर्षिंकृते, कर्मग्रन्थे - कर्मविपाकादिप्रन्थषटु इतिभावः ॥
: २६७ :
अथ ज्ञानावरणस्वरूपमाह-
आत्मनो विशेषबोधावरणकारणं कर्म ज्ञानावरणम् ॥
आत्मन इति । सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको यो बोधस्तज्ञानं तदावरणकारणं यत्कर्म तज्ज्ञानावरणमित्यर्थः । सामान्यविशेषात्मक वस्तुनिष्ठविशेषविषयक- 10 बोधावरणकारणत्वे सति कर्मत्वं लक्षणं, अत्र सामान्यविशेषात्मकेति विशेषणं वस्तुनस्सामान्यविशेषात्मकत्वमिति दर्शयितुं । तेन सामान्यरूपत्वमेव विशेषरूपत्वमेव वा वस्तुनस्वरूपमिति पक्षो निरस्तो दर्शनावरणवारणाय वस्तुनिष्ठविशेषविषयकेतिपदम् । अत्र विशेषतवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानाश्च प्रदोषो निह्नवो मात्सर्यमन्तराय आसादनमुपघातश्च । मत्यादिज्ञानपञ्चकं मोक्षं प्रति मूलसाधनमित्युक्तौ कस्यचिदनभिव्याहार्यो योs - 15 न्तर्दोर्जन्यपरिणामः स प्रदोषः । यत्किञ्चित् परनिमित्तमभिसन्धाय ज्ञानिनो ज्ञानस्य वाड़पलापो निह्नवः । दानयोग्याय दानार्हमपि भावितं ज्ञानं यस्मान्न दीयते तन्मात्सर्यम् । कालुष्यादिना ज्ञानस्य व्यवच्छेदकरणमन्तरायः । मनसा वचसा कायेन वा ज्ञानस्य ज्ञानिनो वाऽनादर आसादनम्, प्रशस्तज्ञानदूषणमुपघात इति । इत्थमेव च दर्शनविषया हेतवो दर्शनपदप्रक्षेपेणैत एव भाव्याः ॥
अथ दर्शनावरणस्वरूपमाह -
आत्मनस्सामान्यबोधावरणसाधनं कर्म दर्शनावरणम् ॥
आत्मन इति । सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको यो बोधो दर्शनं
१. ज्ञानदर्शनयोस्तद्वत्तद्धेतूनाश्च ये किल विघ्ननिव पैशुन्याऽऽशातनाघातमत्सराः, ते ज्ञानदर्शन वरण कर्महेतव आश्रवाः ॥ इति ॥
T
20