________________
तस्वन्यायविभाकरे
[नवमकिरणे त्परस्परं व्याप्यव्यापकभावो विज्ञेयः । दर्शनावरणीयेन समं शेषकर्मणां भावाभावविचारो ज्ञानावरणीयवदेव । वेदनीयेन सहाक्षीणमोहापेक्षया नियमेन मोहनीयमस्ति क्षीणमोहापेक्षया तु मोहनीयं नास्ति, यस्य तु मोहनीयमस्ति तस्य नियमेन वेदनीयमस्ति । एवं वेदनीयेन सहायुर्नामगोत्राणां परस्परं व्याप्यव्यापकभावो विज्ञेयः । अन्तरायस्तु 5 वेदनीयसत्त्वेऽकेवलिनां नियमेनास्ति, केवलिनान्तु नास्ति । अन्तरायसत्त्वे च वेदनीयं नियमेन वर्तते । यस्य मोहनीयमस्ति तस्य नियमेनायुरस्ति यस्यायुरस्ति तस्याक्षीणमोहस्य मोहनीयमस्ति क्षीणमोहस्य तु नास्ति । एवमेव यस्य मोहनीयं तस्य नामगोत्रान्तरायाणि नियमात्सन्ति, यस्य तु तानि सन्ति तस्याक्षीणमोहस्य मोहनीयमस्ति परस्य नास्ति । यस्या
युरस्ति तस्य नियमेन नामगोत्रे यस्य नामगोत्रे तस्य नियमेनायुरस्ति । यस्य त्वायुस्तस्यान्त10 रायः केवल्यपेक्षया नास्ति, अकेवल्यपेक्षयात्वस्ति । नामगोत्रयोश्च परस्परं व्याप्यव्यापक
भावनियमः, नामसत्त्वेऽन्तरायस्तु क्वचित् स्यात्क्वचिन्न स्यात् । अन्तरायसत्त्वे तु नामावश्यमस्ति । एवं गोत्रान्तराययोरपि भाव्यमिति ॥
ज्ञानावरणीयादीनामवान्तरभेदा एव प्रकृतिबन्धस्योत्तरभेदा विंशतियुतशतरूपा इत्याह..एषामवान्तरभेदा विंशत्युत्तरशतात्मका बोध्याः। विवृताश्चैते पुण्य1B पापतत्त्वयोः । उदये च सम्यक्त्वमोहनीयमिश्रमोहनीयसहिता द्वाविं
शत्युत्तरशतभेदा भवन्ति । सत्तायान्त्वष्टपञ्चाशदुत्तरशतभेदाः स्युः । विवृताश्चैते सर्वे कर्मग्रन्थे ॥ .
एषामिति । ज्ञानावरणीयादिकर्मणामित्यर्थः । के ते भेदा इत्यत्राह विवृता इति, एते-भेदाः, उदये कियन्तो भेदा इत्यत्राहोदये चेति । अयं भावः, बन्धोदययोश्चिन्त्यमान, 20• योर्बन्धननामानि संघातननामानि च स्वस्वशरीरान्तर्गततया विवक्ष्यन्ते, न तु पृथक्तया,
तथा वर्णचतुष्टयस्योत्तरभेदाः क्रमेण पञ्चद्विपश्चाष्टसंख्याका बन्धोदययोर्न पृथक् विवक्षणीयाः परन्तु वर्णगन्धरसस्पर्शाश्चत्वार एव ! बन्धे चिन्त्यमाने च सम्यक्त्वसम्यक्मिथ्यात्वे न गृह्यते तयोर्बन्धाभावात् । तथा च बन्धचिन्तने बन्धनपञ्चकसंघातनपञ्चकवर्णा
दिषोडशकानि सत्तागतनाम्नस्त्रिनवतेरपनीयन्ते शेषास्सप्तषष्टिह्यन्ते, मोहनीयप्रकृतयश्च 25 सम्यक्त्वसम्यमिथ्यात्वहीनाष्षड्रिंशतिस्ततस्सर्वप्रकृतिसंख्यायोगे बन्धे विंशत्युत्तरशतं प्रकतयो भवन्ति । उदये च चिन्त्यमाने सम्यक्त्वमिश्रे अप्युदयमायात इति ते अपि परिगृह्येते, तस्मादुदये द्वाविंशंशतमित्यभिप्रायेणोक्तं सम्यक्त्वेत्यादि । सत्तायां कियन्त इत्यत्राह