SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ न्यायप्रकाशसमलते तत्रेति । ज्ञानदर्शनयोर्द्वन्द्वोत्तरमावरणशब्देन तत्पुरुषस्ततस्सर्वेषां द्वन्द्वः । ज्ञानं दर्शनं हि जीवस्य स्वतत्त्वभूतं तदभावे जीवत्वस्यैवायोगात् चेतनालक्षणत्वाज्जीवस्य, ज्ञानदर्शनयोरपि मध्ये ज्ञानं प्रधानं, तद्वशादेव सकलशास्त्रादिविचारसन्ततिप्रवृत्तेः । किञ्च सर्वा अपि लब्धयों जीवस्य साकारोपयुक्तस्य जायन्ते न दर्शनोपयोगयुक्तस्य । अपिच यस्मिन् समये सकलकर्म विमुक्तो जीवस्संजायते तस्मिन् समये ज्ञानोपयोगयुक्त एव, न दर्शनोपयोगयुक्तः, दर्शनो- 5 पयोगस्य द्वितीयसमये भावात्। ततो ज्ञानं प्रधानं तदावरणं ज्ञानावरणं कर्म, ततस्तत्प्रथममुक्तं । तदनन्तरं च दर्शनावरणं, ज्ञानोपयोगाच्च्युतस्य दर्शनोपयोगात् । एते च ज्ञानदर्शनावरणे स्वविपाकमुपदर्शयती यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते भवतः, तथा हि ज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् सूक्ष्मसूक्ष्मतरवस्तुविचारासमर्थ मात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि 10 वस्तूनि निजप्रज्ञया विन्दानो बहुजनातिशायिनमात्मानं पश्यन सुखं वेदयते। तथाऽतिनिबिडदर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखसम्मोहं वचनगोचरातिक्रान्तं, दर्शनावरणक्षयोपशमपटिष्ठतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावद्वस्तुनिकुरुम्बं सम्यगवलोकमानो वेदयतेऽमन्दमानन्दसन्दोहम् । तत एतदर्थप्रतिपत्त्यर्थ दर्शनावरणानन्तरं वेदनीयग्रहणम् । वेदनीयश्च सुखदुःखे जनयतीत्यभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषौ, तौ च 15 मोहनीयहेतुकौ, तत एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहणं, मोहनीयमूढाश्व जन्तवो बह्वारम्भाः परिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति, ततो मोहनीयानन्तरमायुग्रहणम् । नरकाद्यायुष्कोदये चावश्यं नरकगत्यादिनामान्युदयमायान्ति, तत आयुरनन्तरं नामग्रहणम् । नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणम् । गोत्रोदयेन चोच्चैःकुलोत्पन्नस्य प्रायो दानलाभान्तराया- 20 दिक्षयोपशमो भवति राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् । नीचैःकुलोत्पन्नस्य तु दानलाभान्तरायाद्युदयो नीचजातीनां तथा दर्शनात् , तत एतदर्थप्रतिपत्त्यर्थं गोत्रानन्तरमन्तरायग्रहणमिति । यस्य ज्ञानावरणीयं तस्य नियमेन दर्शनावरणीयमस्ति, यस्य दर्शनावरणीयमस्ति तस्यापि नियमेन ज्ञानावरणीयमस्ति । यस्य ज्ञानावरणीयं तस्य नियमेन वेदनीयमस्ति, यस्य वेदनीयमस्ति तस्य केवल्यपेक्षया ज्ञानावरणीयं नास्ति, तद्भिन्नापेक्षया चास्ति 25 तत् । मोहक्षये सति यावदनुत्पन्न केवलज्ञानं तस्य क्षपकस्य ज्ञानावरणीयमस्ति मोहनीयञ्च नास्ति, अक्षपकस्य तूभयमस्ति । मोहनीयसत्वे ज्ञानावरणस्यावश्यम्भावनियमात् । शानावरणेन सह वेदनीयवदायुर्नामगोत्राणामपि भाव्यम् । अन्तरायस्य तु दर्शनावरणीयव
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy