________________
तत्वन्यायविभाकरे
[ नवकिरण पशमनामधिकृस्य मोहनीयस्य चतुःपञ्चषट्सप्ताष्टकविंशतिभेदेन षट्प्रकृतिस्थानानि, शेषाणि तु अनिवृत्तिबादरे प्राप्यमाणत्वादत्र न सम्भवन्ति । मिथ्यादृष्टिसास्वादनसम्यमिथ्यादृष्टिवेदकसम्यग्दृष्टीनामष्टाविंशतिस्थानं, उद्वलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यमिथ्यादृष्टेर्वा सप्तविंशतिस्थानम् । उद्वलितसम्यक्त्वसम्यमिथ्यात्वस्यानादिमिथ्यादृष्टेर्वा षड्विंशतिस्थानं, 5 षड्विंशतिसत्कर्मणो मिथ्यादृष्टेस्सम्यक्त्वमुत्पादयतोऽपूर्वकरणात्परतः पञ्चविंशतिस्थानं वेदि
तव्यं मिथ्यात्वप्रदेशोपशमनाया अभावात् । तथानन्तानुबन्धिनामुबलनेऽपूर्वकरणात्परतो विद्यमानस्य चतुर्विंशतिस्थानं, चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानं । क्षपितसप्तकस्यैकविंशतिस्थानमिति । नामकर्मणस्तु व्युत्तरशतं द्वयुत्तरशतं षण्णवतिः पञ्चनवतिः, त्रिनवतिः,
चतुरशीतियशीतिश्चेति देशोपशमनायोग्यानि । तत्रादिमानि चत्वारि यावदपूर्वकरणगुण10 स्थानकचरमसमयं तावद्वेदितव्यानि न परतः, शेषाणि त्रीणि एकेन्द्रियाणां भवन्ति श्रेणिं
प्रतिपद्यमानानान्तु न सम्भवन्ति शेषाणि स्थानानि अपूर्वकरणगुणस्थानकात्परतो लभ्यन्त इति तानि देशोपशमनाऽयोग्यानि । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकैकं प्रकृतिस्थानं देशोपशमनायोग्यं तत्र ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकं, दर्शनावरणस्य नवप्रकृत्या
स्मकं, वेदनीयस्य द्विप्रकृत्यात्मकं आयुषो द्वे प्रकृतिस्थाने द्वे प्रकृती एका च, तत्राबद्धपरभ15 वायुष्कस्यैका, बद्धपरभवायुषस्तु द्वे, गोत्रस्य द्वे प्रकृतिस्थाने देशोपशमनायोग्ये, एका द्वे चेति, अनुदलितोच्चैर्गोत्रस्य द्वे, उद्वलितोच्चैर्गोत्रस्यैकेति ॥
एवं स्थित्यनुभागप्रदेशदेशोपशमनास्थित्यनुभागप्रदेशसंक्रमवत्प्रायो भवत्यतस्साऽन्यत्र द्रष्टव्या ॥
अथ निकाचनामाह20 . करणसामान्यायोग्यत्वेनावश्यवेद्यतया व्यवस्थापनाप्रयोजकवीर्यविशेषो निकाचना ॥
करणेति । येन वीर्यविशेषेण कर्माणि सकलकरणायोग्यत्वेनावश्यवेद्यतया च व्यवस्थापयति स वीर्यविशेषो निकाचनेत्यर्थः । इयमपि भेदादितो देशोपशमनातुल्यैवावसेयेति ॥
इत्येवं चतुर्विधं बन्धं करणानि च लक्षयित्वाऽथ मूलोत्तरभेदभिन्नं प्रकृतिबन्धं पुण्य25 पापनिरूपणे निरूपितोत्तरभेदं सम्प्रति मूलभेदप्रदर्शनेन साङ्गं विदधातुकाम आह
तत्र मूलप्रकृतिवन्धश्च ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायभेदेनाष्टविधः॥