________________
न्यायप्रकाशलमलते योजने चातुर्गतिका अपि स्वापूर्वकरणान्तिमसमयं यावद्देशोपशमकाः । शेषचारित्रमोहनीयप्रकृतीनामुपशमनायां क्षपणायां वा यावदपूर्वकरणगुणस्थानचरमसमयं तावद्देशोपशमना । शेषप्रकृतीनाञ्च सर्वोपशमना न भवत्येव किंतु देशोपशमनैव सापि चाऽपूर्वकरणगुणस्थानं यावत् । अधिकं कर्मप्रकृत्यादिभ्यो विज्ञेयमितिदिक् ॥ लक्षणान्तर्गतोदीरणादीनां करणविशेषत्वेन ज्ञातत्वादुदयपदार्थ निर्वक्ति-उदयश्चेति । स्थितिक्षयेण 5 प्रयोगेण वा द्विविधोदयो भवति, उदयहेतूनां द्रव्यक्षेत्रकालभवभावरूपाणां प्राप्तौ स्थितेरबाधाकालरूपाया नाशे सति च यः कर्मपुद्गलानां स्वभावत उदयः प्रवर्त्तते स स्थितिक्षयेणोदयः । यः पुनरुदयेऽन्यस्य प्रवर्त्तमाने करणविशेषरूपप्रयोगेणोदयो भवति स प्रयोगेणोदय इत्याशयेनोक्तं कर्मपुद्गलानामित्यादिना । प्रायो यत्रोदयस्तत्रोदीरणा यत्रोदीरणा तत्रोदय इति, उदयस्योदीरणासहभावित्वाज्ज्ञानावरणपञ्चकदर्शनावरणचतुष्टया- 10 न्तरायपञ्चकसंज्वलनलोभवेदत्रयसम्यक्त्वसम्यमिथ्यात्वरूपविशतिप्रकृति मुक्त्वा शेषाणां उदीरणावदेव साद्यनादिकं भवति । एतासान्तु स्वस्वोदयपर्यवसान उदीरणामन्तरेणापि केवलेनोदयेनावलिकाकालमात्रमनुभवनं भवति । विशेषोऽत्रान्यतोविलोकनीय इति ॥
अथ निधत्तिमाह
कर्मणामुद्वर्त्तनापवर्त्तनान्यकरणायोग्यत्वेन व्यवस्थापनानुकूलवीर्य- 15 विशेषो निधत्तिः॥
कर्मणामिति । येन वीर्यविशेषेण कर्मणामुद्वर्तनापवर्त्तनाभिन्नानि करणानि न प्रवर्तन्ते प्रवर्त्तते च ते तादृशो वीर्यविशेषो निधत्तिनामेत्यर्थः । देशोपशमनावद्भेदस्वामिनावस्यापि । यत्रगुणश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिकाचनायथाप्रवृत्तसङ्गमा अपि सम्भवन्ति, तत्र गुणप्रदेशाग्रं स्तोकं ततो देशोपशमनाया असंख्येयगुणं ततो निधत्तम- 20 संख्येयगुणं ततो निकाचितमसंख्येयगुणं ततोऽपि यथाप्रवृत्तसंक्रमेण संक्रान्तमसंख्येयगुणं भवति । स्वामिनस्तु सर्वेऽप्येकद्वित्रिचतुरिन्द्रियासंझिसंज्ञिपञ्चेन्द्रियतिर्यङ्नारकदेवा मनुष्याश्च यथासम्भवमपूर्वकरणपर्यवसानास्सर्वकर्मणां देशोपशमनास्वामिनः । अथ प्रसङ्गाद्देशोपशमना किञ्चिद्विचार्यते । देशोपशमना मूलप्रकृतीनामष्टानामपूर्वगुणस्थानकादूर्ध्व गत्वा पततां प्रवर्त्तमाना सादिः, तत्स्थानमप्राप्तानामनादिः, ध्रुवाऽभव्यानां, भव्यानां त्वध्रुवा देशो- 25
१. मूलोत्तरप्रकृतिविषयउदयो ध्रुवाध्रुवसाद्यनादिरूपतश्चतुर्विधः, ज्ञानदर्शनावरणान्तरायाणामुदयः क्षीणमोहान्तसमयं यावत् मोहस्योपशान्तमोहगुणस्थानकं यावत् वेदनीयनामगोत्रायुषां सयोगान्तसमयं यावद्भाव्यः, तत्र स्थित्युदयमधिकृत्याह स्थितिक्षयेणेति । अनुभागमधिकृत्याह प्रायो यत्रेति ॥