________________
: ९६२ :
तत्त्वन्यायविभाकरे
[ नवमकिरणे
क्त्वयुतो न चारित्रमोहोपशमाय यतते किन्तु वेदकसम्यग्दृष्टिः क्षायोपशमिकसम्यग्दृष्ट्यपरनामा, स चाविरतो देशविरतस्सर्वविरतो वा विशोष्यद्धायां वर्त्तमान एव, संक्लेशाद्धायां वर्तमानस्तु न चारित्रमोहनीयोपशमनाय प्रवर्त्तते । तत्राविरतो यथाप्रवृ
पूर्वकरणे विधाय देशविरतरपर्वविरतो वा भवति देशविरतस्तु करणद्वयं कृत्वा 5 सर्वविरतिमवाप्स्यति, अनयोः प्रतिपन्यनन्तरं यावदन्तर्मुहूर्त्तं वर्धमानपरिणामनियमात तावन्मानां उदयावलिकाया उपरि गुणश्रेणि प्रतिसमयं दलिकरचनापेक्षयानन्तगुणवृद्धामा रचयति ततः परं कोऽपि वर्धमानपरिणामः कोऽपि च हीयमानपरिणामः कोव्यवस्थितपरिणामश्च भवति । वर्धमानपरिणाम ऊर्ध्वमपि वर्धमानां गुणश्रेणिं करोति हीयमानो हीयमानामवस्थितोऽवस्थितां । परिणामहासेन देश सर्वविरतिपरिणामात् आभोगमन्तरेण 10 परिभ्रष्टास्सन्तः पुनः पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा प्रतिपद्यमाना अकृतकरणा एव प्रतिपद्यन्ते, ये त्वाभोगेनैव मिध्यात्वं गताः पुनस्तत्प्रपित्सवः करणपुरस्सरमेव प्रतिपद्यन्ते तदेवं कृतकरणा कृतकरणदेशविरति सर्वविरतिलाभो विज्ञेयः । एवं चारित्र मोहोपशमनाऽन्यंत्र द्रष्टव्या । एवमुपशान्तमोहनीयप्रकृतयस्संक्रमणोद्वर्त्तनापवर्त्तनोदी रणानिधत्तिनिकाचना करणानामयोग्या भवन्ति, दर्शनमोहनीयत्रिके तूपशान्तेऽपि सङ्क्रमापवर्त्तने भवतः, तत्र सम्य15 क्त्वे मिध्यात्वसम्यं मिध्यात्वयोः सङ्क्रमः, अपवर्त्तना तु त्रयाणामपि । यद्यप्युपशान्ते मोहे संक्रमणोद्वर्त्तनापवर्त्तनान्यपि करणानि न भवन्ति ततो लक्षणे तदनभिधानान्यूनता तथापि सर्वंविधोपशमनासंग्रहायैतानि विहाय लक्षणमाचरितमन्यथा देशोपशमनासङ्ग्रहो न स्यादिति । इति सर्वोपशमना संक्षेपत आदर्शिता । यथाप्रवृत्ता पूर्वकरणाभ्यां प्रकृत्यादीनां देशोपशमना प्रकृतिस्थित्यनुभाग प्रदेशदेशोपशमनारूपेण प्रत्येकं मूलप्रकृत्युत्तरप्रकृतिविषय20 कत्वभेदभिन्नेन चतुर्विधा । देशोपशमना सर्वेषां कर्मणां भवति, एक द्वित्रिचतुरिन्द्रियामनुष्याश्च यथासंभव मपूर्व करणगुणस्थानपर्यवसाना देशोपशमनया मूलप्रकृतिमुत्तरप्रकृतिं वोपशमयितुं समर्थाः । देशोपशमनयोपशमितानां कर्मणामुद्वर्त्तनापवर्त्तनासंक्रमणरूपाणि करणानि प्रवर्त्तन्ते नान्यानि । दर्शन त्रिकोपशका विरतास्वापूर्वकरणान्तसमयं यावद्देशोपशमनां कुर्वन्ति, अनन्तानुबन्धिनां विसं -
संज्ञिसंज्ञिपञ्चन्द्रियतिर्यङ्नारकदेवा
१. केवलं कथञ्चित्परिणामासाद्देशविरतोऽविरतिं सर्वविरतो वा देशविरतिं प्रतिपन्नस्सन् भूयोऽपि पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते एवमकृतकरणेऽनेकशो गमागमं करोतीतिभावः ॥ २. यस्त्वाभोगप्रतिपत्त्या नष्टकरणो देशविरतेस्सर्वविरतेर्वा परिभ्रष्टो मिथ्यात्वञ्चगनस्स भूयो - ऽपि जघन्यनान्तर्मुहूर्त्तकालेन उत्कर्षतः प्रभूतेन कालेन पूर्वप्रतिपन्नामपि देशविरतिं सर्वविरतिंवा करणद्वयपुरस्सरमेव प्रतिपद्यत इतिभावः ॥ ३ गुणस्थानग्रन्थे पूर्वोक्ते ॥