________________
उपशमना ] न्यायप्रकाशसमलते
:२६१: नकाशुभकर्मानुभागस्य द्विस्थानककारी द्विस्थानकशुभकर्मानुभागस्य च चतुस्स्थानककारी ज्ञानावरणीयादिसप्तचत्वारिंशद्धृवप्रकृतीस्वस्वभवप्रायोग्याः परावर्त्तमानमध्यस्था अतिविशुद्धपरिणामत्वेनायुर्वर्जाश्शुभा एव बध्नन् बध्यमानप्रकृतीनां स्थितिमन्तस्सागरोपमकोटीकोटिमात्रप्रमाणां बध्नन् जघन्यमध्यमोत्कृष्टयोगवशतः प्रदेशानं जघन्यमध्यमोत्कृष्टरूपेण बध्नन् परिपूर्णे च स्थितिबन्धे पूर्वस्थितिबन्धापेक्षयापल्योपमासंख्येयभागन्यूनमन्यं स्थिति- 5 बन्धं कुर्वन् तथैवान्यमन्यं स्थितिबन्धं विदधत् बध्यमानानां प्रकृतीनामनुभागमशुभानां द्विस्था. नकं प्रतिसमयमनन्तगुणहीनं बध्नन् शुभानाश्च चतुस्स्थानकं प्रतिसमयमनन्तगुणवृद्धं कुर्वन्नेवमेवमेव यावदन्तर्मुहूर्तपरिसमाप्तिं व्यापृतः परिणामविशेषाणि प्रत्येकमान्तौहूर्तिकानि समुदायेनाप्यान्तर्गौहूर्तिकानि त्रीणि यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानि विधायान्तर्मोहूर्तिकीमुपशमाद्धामवाप्नोति । करणत्रयनिरूपणा अन्यतोऽवगन्तव्या, अनिवृत्तिकरणाद्धायास्संख्येयेषु भागेषु 10 गतेषु संख्येयतम एकस्मिंश्च भागेऽवशेषेऽन्तर्मुहूर्त्तमात्रमधो मुक्त्वा. मिथ्यात्वस्यान्तरकरणं करोति, अन्तरकरणं नामोदयक्षणादुपरि मिथ्यात्वस्थितिमन्तर्मुहूर्तमानामतिक्रम्योपरितनीश्च विष्कम्भयित्वा मध्येऽन्तर्मुहूर्त्तमानं तत्प्रदेशवेद्यदलिकामावकरणं, तन्निष्पादनकालोऽप्यन्तरकरणकाल एव, सोऽप्यन्तर्मुहूर्त्तप्रमाणः प्रथमस्थितेः किञ्चिन्न्यूनोऽभिनवस्थितिबन्धाद्धया समानः। तथा हि प्रथमस्थित्यन्तरकरणे द्वे अपि अन्तर्मुहूर्तप्रमाणे युगपदारभते, अन्तरकरणप्रथम- 15 समय एव चान्य स्थितिबन्धं मिथ्यात्वस्यारभते स्थितिबन्धान्तरकरणे च युगपत् समापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणेस्संख्येयतमं भागमन्तरकरणदलिकेनोत्किरति,उत्कीर्यमाणञ्च दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति । अन्तरकरणादधस्तनी स्थितिः प्रथमोपरितनी च द्वितीयेत्युच्यते, तत उदयोदीरणाभ्यां प्रथमस्थितिमनुभवन् तावद्गतो यावदावलिकाद्विकं शेषम् । तत्र स्थितस्य पूर्वप्रवृत्तो द्वितीयस्थितेस्सकाशादुदीरणाप्रयोगेण दलिकं 20 समाकृष्योदये प्रक्षेपरूप आगालोऽत्र न भवति किन्तु केवलमुदीरणव । साऽपि तावदेव यावदावलिकाशेषो न भवति । ततस्सापि निवर्त्तते ततः केवलेनैवोदयेन तामावलिकामनुभवति तस्यामप्यपगतायां मिथ्यात्वस्योदयोऽपि निवर्त्तते तहलिकाभावात् तस्मिश्चापगते उपशान्ताद्धासमागमस्तत्र प्रथमसमय एव चोपशमसम्यक्त्वं लभते । अत्रोदयोदीरणादीनां निवृत्तेरीदृशोपशमनाकरणाध्यवसाय एवोपशमनेत्युच्यते । परं तत्रौपशमिकलाभप्रथमसम- 25 यादारभ्य मिथ्यात्वदलिकं प्रतिसमयं यावदन्तर्मुहूर्त सम्यक्त्वसम्यमिथ्यात्वयोस्संक्रमयति, प्रथमस्थितिचरमसमये द्वितीयस्थितिगतदलिकस्यानुभागभेदेन शुद्धमिश्राशुद्धतया विभक्तत्वात् । अयं गुणसंक्रम उच्यतेऽन्तरकरणस्थितेनौपशमिकसम्यक्त्वलक्षणप्रशस्तगुणान्वितेन क्रियमाणत्वात् । इत्येवं सम्यक्त्वोत्पादो निरूपितः । ईदृशौपशमिकसम्य