________________
: २६०: तत्त्वन्यायविभाकरे
[ नवमकिरणे भिचारित्वान्न भवविपाकित्वम् । जीवमेवाधिकृत्य यो रसोऽनुग्रहोपघातादिसम्पादनाभिमुलो भवति स जीवविपाकः। यथा ज्ञानावरणपश्चकं दर्शनावरणनवकं वेदनीयद्वयं दर्शनमोहनीयत्रिकं पञ्चविंशतिमोहनीयप्रकृतयोऽन्तरायपश्चकं गतिचतुष्टयं जातिपश्चकं विहायोगतिद्विकं त्रसत्रिकं स्थावरत्रिकं सुस्वरदुस्स्वरसुभगदुर्भगादेयानादेययशःकीर्त्ययशःकीर्ति5 तीर्थकरोच्चासनामानि गोत्रद्वयश्चेत्यष्टसप्ततिप्रकृतयः । उदययोग्यतापेक्षयाऽष्टसप्ततिरिति, बन्धयोग्यतामाश्रित्य तु सम्यक्त्वसम्यमिथ्यात्वपरिहारेण षट्सप्ततिर्बोध्या । प्रत्ययसाधनादिस्वामित्वप्ररूपणा अन्यतो विज्ञेयाः। एवं साद्यनादिस्वामित्वप्ररूपणात्मिकाप्रदेशोदीरणापि॥ ____ अधुनोपशमनामाख्याति
कर्मणामुदयोदीरणानिधत्तिनिकाचनाकरणायोग्यत्वेन व्यवस्थापना10 हेतुर्वीर्यपरिणतिरुपशमना । उदयश्च यथास्थितिबद्धानां कर्मपुद्गलाना
मबाधाकालक्षयात्संक्रमापवर्तनादिकरणविशेषाद्वोदयसमयप्राप्तानामनुभवनम् ॥
कर्मणामिति । यादृशवीर्यविशेषतः कर्मणामुदयस्योदीरणानिधत्तिनिकाचनानामयोग्यतया व्यवस्थापनं भवति तादृशवीर्यपरिणतिरुपशमनेत्यर्थः । कर्मणामुपशमना द्वि15 विधा, कृतकरणाऽकृतकरणा चेति, यथाप्रवृत्त्यपूर्वानिवृत्तिकरणसाध्यक्रियाविशेषकृता कर
णकृता, यथाप्रवृत्त्यादिकरणक्रियाविशेषमन्तरेणापि वेदनानुभवनादिकारणैर्योपशमना साऽकृ. तकरणेत्यर्थः, द्वैविध्यमिदं देशोपशमनाया एव, न सर्वोपशमनायास्तस्याः करणेभ्य एव भावात्। अकरणकृतोपशमनाया अकरणाऽनुदीर्णरूपभेदभिन्नायास्सम्प्रत्यनुयोगस्य
व्यवच्छिन्नत्वेन कृतकरणोपशमनाऽत्र किश्चिद्विचार्यते कृतकरणोपशमना देशसर्वविषयभेदतो 20 द्विविधा, सर्वविषयोपशमना गुणोपशमना प्रशस्तोपशमनेति नामद्वयवती देशविषयोपशमना
अगुणोपशमनाऽप्रशस्तोपशमना चेति नामद्वयवती। तत्र सर्वोपशमना मोहनीयस्यैव, शेषकमणान्तु देशोपशमना। पश्चेन्द्रियस्संज्ञी सर्वपर्याप्तः उपशमलब्ध्युपदेशश्रवणलब्धिकरणत्रयहेतुप्रकृष्टयोगलब्धित्रिकयुक्तो वा करणकालात्प्रागपि यावदन्तर्मुहूर्त प्रतिसमयमनन्तगुणवृद्ध्या
विशुद्धयाऽवदायमानचित्तसन्ततिरभव्यसिद्धिकविशोधिकमतिक्रम्य वर्तमानो मतिश्रुताज्ञान25 विभङ्गज्ञानानामन्यतमस्मिन् साकारोपयोगे वर्तमानो मनोवाक्कायान्यतमयोगे वा वर्तमानो
विशुद्धलेश्यान्यतमयुक्तः कृतान्तस्सागरोपमकोटीकोटिप्रमाणस्थितिकायुर्वर्जसप्तकर्मा चतुस्स्था
१. यद्यपि सर्वा एव प्रकृतयः परमार्थतस्साक्षात्परम्परया वा जीवस्यैवानुग्रहमुपघातञ्च कुर्वन्तीति जीवविपाकिन्य एव तथापि मुख्यतया क्षेत्रभवपुरलेषु तद्विपाकस्य विवक्षितत्वातू तथा प्रोक्ता इति ॥