________________
उदीरणा ] न्यायप्रकाशसमलङ्कृते
: २५९ : एतञ्च पूर्वमुपदर्शितम् घातिसंज्ञा तु सर्वघातिदेशघात्यघातिभेदतत्रिविधा । तथा शुभकर्मणामनुभागः क्षीरखण्डरसोपमः, अशुभकर्मणान्त्वशुभो घोषातकीनिम्बरसोपमः । स्वविषयं याः पूर्णतया नन्ति तास्सर्वघातिन्यः, केवलज्ञानदर्शनावरणमाद्यद्वादशकषाया मिथ्यात्वं निद्रापञ्चकञ्चेति विंशतिः । एता हि प्रकृतयो यथायोगमात्मघात्यं गुणं सम्यक्त्वं ज्ञानं दर्शनं चारित्रं वा सर्वात्मना घातयन्ति । मतिश्रुतावधिमनःपर्यवज्ञानावरणानि चक्षुरचक्षु- 5 रवधिदर्शनावरणानि संज्वलनकषाया नोकषाया अन्तरायाश्च पश्चविंशतिप्रकृतयो देशघातिन्यः । ज्ञानादिगुणैकदेशविघातित्वात् । केवलज्ञानदर्शनावरणीयाभ्यामावृतयोरपि केवलज्ञानदर्शनयोर्मन्दमन्दतरादिविशिष्टप्रकाशरूपाणां मतिज्ञानादिचक्षुर्दर्शनादीनां ज्ञानदर्शनैकदेशरूपाणां विघातकत्वात् आद्यद्वादशकषायक्षयोपशमसमुत्थचारित्रलब्धेरतिचारसम्पादकतया देशतो विघातकत्वात् सर्वद्रव्यैकदेशविषयकदानादिविघातकारित्वाच्च । 10 नामगोत्रवेदनीयायुरन्तर्गतास्तु प्रकृतयो हन्तव्याभावान्न किमपि नन्तीति ता अघातिन्यः । सर्वघातिनीनां रसो हि ताम्रभाजनवनिश्छिद्रो घृतवदतिस्निग्धो द्राक्षावत्तनुप्रदेशोपचितः स्फटिकाभ्रवनिर्मलः सकलस्वविषयघातित्वेन सर्वघाती । देशघातिनीनान्तु रसः कश्चिद्वंशदलनिर्मापितकटवदतिस्थूलच्छिद्रशतवत्संकुलः, कश्चित्कम्बलवन्मध्यमविवरशतसंकुलः, कोऽपि ममृणवासोवदतिसूक्ष्मविवरसंवृतोऽल्पस्नेहो विमलश्च स्वविषयैकदेशघातित्वाद्देश- 15 घाती भवति । अघातिनीनां रस उभयविलक्षणः। विपाकोऽपि पुद्गलक्षेत्रभवजीवविपाकभेदाचतुर्विधः । पुद्गलानधिकृत्य यस्य रसस्य फलदानाभिमुख्यं स पुद्गलविपाकः । स च संस्थानषटूसंहननषटकातपशरीरपञ्चकाङ्गोपाङ्गत्रयोद्योतनिर्माणस्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुभाशुभपराघातोपघातप्रत्येकसाधारणनाम्नां षट्त्रिंशत्प्रकृतीनाम् । क्षेत्रे गत्यन्तरसंक्रमणहेतुनभःपथे यस्य रसस्य फलदानाभिमुख्यं स रसः क्षेत्रविपाको यथा चतसृणामानु- 20 पूर्वाणाम् । भवे नरकादिरूपे स्वयोग्ये यस्य रसस्य फलदानाभिमुखता स भवविपाको यथा चत्वार्या!षि परभवे संक्रमेणाप्युदयाभावात् । गतीनान्तु परभवे संक्रमादुदयेन स्वभवव्य
- १. अघातिन्यो न कञ्चन ज्ञानादिगुणं-घातयन्ति केवलं सर्वघातिनीभिस्सह वेद्यमानास्सर्वघातिरसविपाकं दर्शयन्ति देशघातिनीभिश्चसह वेद्यमाना देशघातिरसं, चोरैस्सह वर्तमानोऽचौरो यथा चौर इवाभासते तद्वदितिभावः ॥ २. शरीरतया परिणतेषु पुद्गलेषु यासां विपाकस्ताः पुद्गलविपाकिन्य इतिभावः ॥ ३. ननु विग्रहगत्यभावेऽपि संक्रमकरणेनानुपूर्वीणामुदयो विद्यतः इति कथं क्षेत्रविपाकिन्यस्ताः, न गतिवज्जीवविपाकिन्य इति चेदुच्यते विद्यमानेऽपि संक्रमे यथा तासां क्षेत्रप्राधान्येन स्वकीयो विपाकोदयो न तथाऽन्यासामिति क्षेत्रविपाकिन्य एवेति ॥४. यथा मोक्षगामिनोऽशेषा गतयो मनुष्यभवे क्षयं यान्तीति भवं प्रति गतीनां न नैयत्यमितिभावः ॥