________________
तत्वन्यायविभाकरे
बिमाकरण तत्वे द्वाविंशत्यधिकशतमुदयसमकक्षतयोत्तरप्रकृतीनां भवति, पृथक् तद्विवक्षायान्तु अष्टप. ञ्चाशदधिकशतभेदास्तेषाम् । ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां मूलप्रकृतीनां अनादित्वं ध्रुवत्वमध्रुवत्वञ्च । वेदनीयमोहनीययोश्चतुर्विधत्वमपि । तत्र ज्ञानावरणदर्शनावरणान्तरायाणां यावत्क्षीणमोहगुणस्थानकस्य समयाधिकावलिकाशेषो न भवति तावत्सर्वजीवानामुदीरणाया अवश्यंभावेन, नामगोत्रयोश्च यावत्सयोगिचरमसमयं तावत्सर्वेषामवश्यभावेनानादित्वं, ध्रुवत्वमभव्यापेक्षयाऽध्रुवत्वञ्च भव्यापेक्षयेति । वेदनीयस्य यावत्प्रमत्तगुणस्थानकं मोहनीयस्य सूक्ष्मसम्परायगुणस्थानकं यावदुदीरणाया भावेनाप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणाया
स्सादित्वं, तत्स्थानमप्राप्तस्यानादित्वं, ध्रुवत्वाधुवत्वे पूर्ववत् । आयुरुदीरणायास्सादित्वम10 ध्रुवत्वश्च । पर्यन्तावलिकायामायुषो नियमेनोदीरणाया अभावादध्रुवत्वं पुनरपि भवोत्पत्ति
प्रथमसमये प्रवर्त्तमानत्वाच्च सादित्वं । उत्तरप्रकृतीनान्तु कर्मप्रकृत्यादिभ्यो ज्ञातव्याः । ज्ञानावरणदर्शनावरणान्तरायाणां क्षीणमोहान्तास्सर्वेप्युदीरकाः। मोहनीयस्य सूक्ष्मसम्परायान्ता उदीरकाः । वेदनीयस्य प्रमत्तगुणस्थानकपर्यन्तास्सर्वेऽप्युदीरकाः। आयुषोऽचरमावलिक
प्रमत्तान्ता उदीरकाः, नामगोत्रयोस्तु सयोगिकेवलिपर्यवसानास्सर्वेऽप्युदीरका इति । 15 अधिकमन्यत्र द्रष्टव्यम् । तथा ज्ञानावरणवेदनीयायुर्गोत्रातरायाणामेकैकमुदीरणास्थानं,
यथा ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकं, वेदनीयायुर्गोत्राणां वेद्यमानैकप्रकृत्यात्मकं, नैतासां द्विव्यादिकाः प्रकृतयो युगपदुदीर्यन्ते युगपदुदयाभावात् । दर्शनावरणीये चक्षुर्दर्शनावरणादीनां पञ्चानां चतसणां वा प्रकृतीनां युगपदुदीरणा
भवति । मोहनीये एकस्या द्वयोश्चतसृणां पश्चानां षण्णामष्टानां नवानां दशानां वा । 20 नामकर्मणो दशोदीरणास्थानानि एकचत्वारिंशत्-द्विचत्वारिंशत्--पञ्चाशत्-एकपञ्चाशत्
द्विपञ्चाशत्-त्रिपश्चाशत्-चतुः--पञ्चाशत् पञ्चपञ्चाशत्--षट्पश्चाशत् -सप्तपश्चाशञ्चेति । विशेषस्त्वन्यतो द्रष्टव्य इति प्रकृत्युदीरणा । स्थित्युदीरणायां प्रथमं लक्षणमुच्यते, उदयो हि द्विविधः, सम्प्राप्त्यसम्प्राप्तिभेदात् कालक्रमेण कर्मदलिकस्योदयहेतुद्रव्यक्षेत्रादिसामग्रीस
सम्प्राप्तौ य उदयस्स सम्प्राप्त्युदयः, अकालप्राप्तं कर्मदलिकमुदीरणाप्रयोगेण वीर्यविशेष25 संज्ञितेन समाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते सोऽसम्प्राप्त्युदयः, तथाचासम्प्राप्त्यु
दय एवोदीरणा या स्थितिरप्राप्तकालापि सती उदीरणाप्रयोगेण सम्प्राप्त्युदये प्रक्षिप्ता दृश्यते केवलचक्षुषा सा स्थित्युदीरणेति । भेदादिकमन्यतो द्रष्टव्यम् । अनुभागोदीरणायां संज्ञाद्विभेदा, स्थानघातिभेदात् स्थानं चतुर्विधं एकद्वित्रिचतुस्स्थानभेदात्
१. वेदनीयायुगोत्रप्रकृतीनामित्यर्थः ।