SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अपवतीदारणे ] न्यायप्रकाशसमलते : ५५७ : - अथापवर्तनामाहकर्मस्थित्यनुभागयोईस्वीकरणप्रयोजकवीर्यविशेषोऽपवर्तना॥ कर्मस्थितीति । कर्मपरमाणूनां दीर्घस्थित्यनुभागवतां दीर्घस्थित्यनुभागावपहृत्य हूस्वस्थितिरसवत्तया व्यवस्थापने प्रयोजकीभूतवीर्यविशेष इत्यर्थः। उदयावलिकाया बाह्यान् समयमात्रद्विसमयमात्रादिस्थितिभेदानपवर्त्तयति । उदयवतीनामनुदयवतीनां प्रकृतीनामुदयसमया- 5 दारभ्यावलिकामात्रा स्थितिरुदयावलिकेति विज्ञेया। ते चापवर्त्यमानास्थितिविशेषा यावद्वंधावलिकाहीना सर्व कर्मस्थितिस्तावल्लभ्यन्ते । उदयावलिकाया उपरितनी या समयमात्रा स्थितिस्तस्या दलिकमपवर्तयन्नुदयावलिकाया उपरितनौ द्वौ त्रिभागौ समयोनावतिक्रम्याधस्तने समयाधिके तृतीये भागे निक्षिपति, एष जघन्यो निक्षेपो जघन्या चातीत्थापना, यदाचोदयावलिकाया उपरितनी द्वितीया स्थितिरपवर्त्यते तदातीत्थापना प्रागुक्तप्रमाणा 10 समयाधिका भवति निक्षेपस्तु तावन्मात्र एव । एवं तृतीया यदापवर्त्यते तदा प्रागुक्तमानाऽतीत्थापना द्विसमयाधिका भवति निक्षेपस्तु तावानेव । एवमतीत्थापना प्रतिसमयं तावद्वर्धयितव्या यावदावलिका परिपूर्यते निक्षेपविषयाणां स्थितीनाश्च समयाधिक आवलिकात्रिभाग एवानुवर्तते, ततः परमतीत्थापना सर्वत्र तावन्मात्रैव प्रवर्त्तते, निक्षेपस्तु . यावद्बन्धावलिकातीत्थापनाऽवलिकारहिताऽपवय॑मानस्थितिसमयरहिता च सकलापि 15 कर्मस्थितिस्तावद्वर्धते । इत्येवं निर्व्याघातापवर्त्तना विज्ञेया। सव्याघाताऽपवर्तनोद्वर्तनापवर्तनयोस्संयोगेनाल्पबहुत्वं कर्मप्रकृत्यादिभ्यो विज्ञेयम् । एवमनुभागोद्वर्त्तनापवर्तनादिकमपि तत एवाऽवगन्तव्यम् । उद्वर्तनापवर्त्तने संक्रमभेदावेव स्थित्यनुभागाश्रये इत्यलं विस्तरेण ॥ . सम्प्रत्युदीरणामाहअनुदितकर्मदलिकस्योदयावलिकाप्रवेशनिदानमात्मवीर्यमुदीरणा ॥ 20 अनुदितेति । येन योगसंज्ञकवीर्यविशेषेण कषायसहितेन तद्रहितेन वोदयावलिकाबहिर्वर्तिनीभ्यस्थितिभ्यः परमाण्वात्मकं दलिकमपकृष्योदयावलिकायां प्रक्षिप्यते स एष वीर्यविशेष उदीरणेत्यर्थः। सापि प्रकृतिस्थित्यनुभागप्रदेशभेदतश्चतुर्धा । प्रत्येकमपि मूलोत्तरप्रकृतिविषयत्वाद्विविधम् । अष्टधा च मूलप्रकृतिविषया, बन्धनादीनां पृथगविवक्षि १. अपवर्तना च स्थित्यनुभागविषयेवे, न प्रकृतिप्रदेशविषयेत्याशयेनोक्तं स्थित्यनुभागवतामिति । के तेस्थितिविशेषा यानपवर्तयतीत्यत्राहोदयावलिकाया इति. उदयावलिकागतास्तुनिखिलकरणायोग्यत्वेनापवर्तनामहत्वात् बायानिति ॥ ३
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy