________________
FRN:
[ नवमकिरणें
मुद्वर्तना, दीर्घीभूतस्य ह्रस्वीकरणमपवर्त्तनेति । एवमनुभागसंक्रमोऽपि मूलोत्तरप्रकृतिविषयः, लक्षणन्तु यस्तासां रसो ह्रस्वीभूतस्सन् दीर्घीकृतो दीर्घीभूतस्सन् ह्रस्वीकृतोऽन्यप्रकृतिस्वभावेन परिणमितो वा स सर्वोऽप्यनुभागसंक्रमः, परन्तु मूलप्रकृतीनां परस्परं सङ्कमाभावेनान्यप्रकृतिस्वभावपरिणामरूपरससङ्क्रमो न भवति । एवं यत्संक्रमप्रायोग्यं कर्म5 दलिकमन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसङ्क्रमः, स चोद्वलनाविष्यातयथाप्रवृत्तगुणसर्वसङ्क्रमभेदेन पञ्चविधः, घनदलान्वितस्यास्पदलस्योत्किरणमुद्वेलनं, यासां प्रकृतीनां गुणप्रत्ययतो भवप्रत्ययतो वा बन्धो न भवति तासां संक्रमकरणं विध्यातसङ्क्रमः । अपूर्वकरणप्रभृतयोऽबध्यमानाशुभप्रकृतीनां सम्बन्धिकर्म दलिकं प्रतिसमयमसंङ्ख्येयगुणतया बध्यमानासु प्रकृतिषु यत्प्रक्षिपन्ति स गुणसङ्गमः । सर्वेषामपि संसारस्थानां जीवानां ध्रुव10 बन्धिनीनां बन्धे परावर्त्तमानप्रकृतीनान्तु स्वस्वभवबन्धयोग्यानां बन्धेऽबन्धे वा यस्सङ्क्रमः प्रवर्त्तते स यथाप्रवृत्तसंक्रमः । चरमसमये यत्परप्रकृतिषु प्रक्षिप्यते दलिकं स सर्वसङ्क्रमउच्यते । अत्र सर्वेषां विशेषः कर्मप्रकृत्यादितो विज्ञेय इति दिकू ॥
अधुनोद्वर्तनामाचष्टे—
कर्मस्थित्यनुभागयोः प्रभृतीकरण प्रयोजक वीर्यपरिणतिरुद्वर्त्तना ।।
कर्मेति । स्थित्यनुभागमात्रविषयेयमुद्वर्त्तनेतिसूचनाय कर्मस्थित्यनुभागयोरित्युक्तमेवमेवोत्तरलक्षणे विज्ञेयम् । उदयावलिकातो बहिर्वर्त्तिनीनां स्थितीनामुद्वर्त्तना भवति उदयावलिकागतास्तु सकलकरणायोग्याः । तथाऽबाधाकालादुपरितन्य एव स्थितयः उद्वर्यंते, बध्यमानप्रकृत्यबाधया समाना हीना वा या पूर्वबद्धप्रकृतीनां स्थितिस्साऽबाधाकालान्तः प्रविष्टत्वान्नोद्वर्त्यते । तथाचाबाधान्तः प्रविष्टा निखिला अपि स्थितय उद्वर्त्तनापेक्षया 20 परित्याज्या भवन्ति, तत्रोत्कृष्टाऽबाधोत्कृष्ट तीत्थापनेत्युच्यते, अतीत्थापना उल्लंघनीया । समयेनोना योत्कृष्टाऽबाधा समयोनोत्कृष्टातीत्थापना भवति, द्विसमयेनोना सा द्विसमयोनोत्कृष्टा तत्थापना, एवं प्रतिसमयहान्या तावदतीत्थापना भवन्ति यावज्जघन्याऽबाधाऽन्तर्मुहूर्त्त प्रमाणा, ततोऽपि जघन्यतराऽतीत्थापना यावदुदयावलिका तावद्वाच्या, उदद्यावलिकागतानां तु स्थितीनामनुद्वर्त्तनीयत्वात् । कर्मदलिकनिक्षेपविचारस्तु कर्मप्रकृत्यादितो बोध्य इति दिक् ।
15
तस्वन्यायविभाकरे
१. उद्वर्त्तनापवर्त्तनारूपौ संक्रमौ तु भवत इति भावः । २ यथाऽनन्तानुबन्धिचतुष्टय सम्यक्त्वमिथ्यात्ववेदद्विकनरकद्विकवैक्रिय सप्तकाहार कसप्तकमनुजद्विको चैर्गोत्राणां पल्योपमासंख्येयभागमात्र मन्तर्मुहूर्तेन कालेन स्थितिखण्डमुत्किरति पुनस्तथैव द्वितीयं प्रथमखण्डाद्विशेषहीनं, एवमेव पूर्वस्मात्पूर्वस्माद्विशेषतो हीनानि स्थितिखण्डानि यावद् द्विचरमस्थितिखण्डमन्तर्मुहूर्त कालेनोत्कीर्यन्त इति ॥