________________
संक्रमणम् ]
काश समलङ्कृते
ARMA
एषां संक्रमस्य सादित्वमधुवत्वञ्च । भिध्यात्वस्य तु संक्रमो विशुद्ध सम्यग्दृष्टेर्भवति, विशुद्धसम्यग्दृष्टित्वञ्च कादाचित्कमतस्तस्य संक्रमो साद्यध्रुव एवेति । मिथ्यादृष्ट्यादिप्रमत्तान्तास्सात वेदनीयस्य संक्रामकाः, परतस्संक्रम्यमाणप्रकृत्याधारभूतासात वेदनीयस्य बन्धाभावान्नेतरे तत्संक्रामकाः, अपि तु तत्र साते बध्यमानेऽसातस्यैव संक्रमः । अनन्तानुबन्धिनां मिध्यादृष्टवादयोऽप्रमत्तसंयतान्तास्सङ्क्रामका न परे, परतस्तेषामुपशमनात्क्षयाद्वा । मिध्या- 5 दृष्टद्यादयोऽपूर्वकरणान्ता यशः कीर्तेस्सङ्क्रामका नेतरे, परतः केवलायास्तस्या एव बन्धेन पतग्रहाभावात् । अनन्तानुबन्धिवर्जद्वादशकषायाणां नोकषायाणाञ्च मिथ्यादृष्ट्यादयो निवृत्तिबादर सम्परायान्तास्सङ्क्रामका न परे, परतस्तेषामुपशमात्क्षयाद्वा । मिथ्यात्व - सम्यद्धुमिथ्यात्वयोरविरतसम्यग्दृष्ट्यादय उपशान्तमोहपर्यवसानास्संक्रामकाः, न परे, परतस्तयोस्सत्ताया अभावात् । सम्यमिध्यात्वं पुनर्मिथ्यादृष्टिरपि संक्रमयति, सम्यक्त्वस्य 10 मिध्यादृष्टिरेव सङ्ग्रामको नान्ये, मिथ्यात्वे वर्त्तमानस्यैव संक्रामकत्वात् । उच्चैर्गेौत्रस्य मिथ्या
सास्वादनौ, अन्येषां नीचैर्गोत्राबन्धकत्वात् । इतरासां मतिज्ञानावरणीयादिप्रकृतीनां सूक्ष्मसम्परायपर्यवसाना मिध्यादृष्ट्यादयस्सङ्क्रामका न परे परतो बन्धाभावेन पहा - भावादिति । एवं ज्ञानावरणपञ्चकदर्शनावरणनव कषोडशकषायभय जुगुप्सातैजस सप्तकवर्णादिविंशतिनिर्माणागुरुलघूपघातान्तरायपश्चकलक्षणाः पतग्रहा ध्रुवबन्धिन्यस्सप्तषष्टिप्रकृत- 15 यस्साद्यनादिध्रुवा ध्रुव रूप चतुर्भेदाः । अभव्यभव्यापेक्षया ध्रुवाभ्रुवत्वे, स्वस्वबन्धव्यवच्छेदे पतद्ग्रहत्वाभावेन तत्र संक्रमासंभवाद्बन्धारम्भे च हेतुतः पतग्रहत्वेन सादित्वं तत्तद्बन्धव्यवच्छेदस्थानमप्राप्तस्यानादित्वं, शेषास्त्वध्रुवबन्धिन्योऽष्टाशीतिसंख्याः प्रकृतयोऽध्रुवबन्धित्वादेव पतद्भहत्वमधिकृत्य साद्यध्रुवा भावनीयाः । मिथ्यात्वस्य पुनर्ध्रुवबन्धित्वेऽपि यस् सम्यक्त्वमिथ्यात्वे विद्येते स एव ते तत्र संक्रमयति नान्य इति तस्य साद्यध्रुवपतद्रत्वं 20 भाव्यम्, विशेषोऽत्र कर्म प्रकृत्यादितोऽवसेयः । अष्टमूलप्रकृतीनामष्टपञ्चाशदधिकशतसंख्याकोत्तरप्रकृतीनाञ्च या स्थितिर्ह्रस्वीभूता सती दीर्घीकृता दीर्घीभूता सती ह्रस्वीकृता पतद्रहप्रकृतिस्थितिषु वा मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्यते, तत्र स्थितीनामन्यत्र निवेशनं न साक्षादशक्यत्वादपितु स्थितियुक्तपरमाणुद्वारैवै, ततो मूलप्रकृतीनां परस्परं संक्रमाभावात् तासां प्रकृत्यन्तरनयनलक्षणस्स्थितिसङ्क्रमो 25 न भवति किन्तु द्वावेवोद्वर्त्तनापवर्त्तनालक्षणौ सङ्क्रमौ ह्रस्वीभूतस्य दीर्घीकरण
१. तथाच कर्मपरमाणूनां इस्वस्थितिकालतामपहाय दीर्घस्थितिकालतया व्यवस्थापनं तेषामेव दीर्घस्थितिकालतामपहाय इस्वस्थितिकालतया व्यवस्थापनं, पुनः संक्रम्यमाणप्रकृतिस्थितीनां पतग्रहप्रकृतौ नीत्वा निवेशनमिति भाव्यम् ॥