SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ :२५४: तत्त्वन्यायविभाकरे [ नवमकिरणे मानानां वा प्रकृतीनामितरेतररूपतया परिणमयति स वीर्यविशेषस्सङ्क्रमणमित्यर्थः । यथा बध्यमानसातवेदनीयेऽबध्यमानासातवेदनीयस्य, उच्चैर्गोत्रे वा तादृशे नीचैर्गोत्रस्य ताहशस्येत्यादि । तथा बध्यमाने मतिज्ञानावरणीये बध्यमानस्यैव श्रुतज्ञानावरणीयस्य श्रुतज्ञानावरणीये वा तादृशे तादृशमतिज्ञानावरणीयस्येत्यादि । सोऽयं सङ्क्रमः प्रकृतिस्थित्यनु5 भागप्रदेशरूपविषयभेदाचतुर्विध इति सूचयितुं प्रकृतिस्थित्यनुभागप्रदेशानामित्युक्तम् । दर्शनत्रिकस्य बन्धं विनापि संक्रमाद् बन्धघटितं संक्रमलक्षण नोक्तम् । मिथ्यात्वस्यैव हि बन्धो न सम्यक्त्वसम्यमिथ्यात्वयोः, विशुद्धसम्यग्दृष्टिः सम्यक्त्वसम्यमिथ्यात्वयोः, पतद्हरूपबन्धाभावेऽपि मिथ्यात्वं सङ्कमयति, सम्यक्त्वे च सम्यमिथ्यात्वम् । संक्रम्य माणप्रकृतेराधारभूता प्रकृतिः पतगृह उच्यते, किन्तु कृतेऽन्तरकरणे प्रथमस्थितौ समयोना. 10 वलिकात्रिकशेषायां बध्यमानेष्वपि संज्वलनेषु चतुर्वपि प्रकृत्यन्तरदलिकसंक्रमाभावात्तदानी न तेषां पतगृहत्वं, तथान्तरकरणे कृते द्वयोरावलिकयोः प्रथमस्थितिसत्कयोः पुंवेदस्य प्रकृत्यन्तरसंक्रमाभावेन न पतगृहत्वं,मिथ्यात्वे क्षपिते सम्यमिथ्यात्वस्य सम्यमिथ्यात्वयोश्च क्षपितयोस्सम्यक्त्वस्योद्वलितयोस्तु सम्यक्त्वसम्यमिथ्यात्वयोमिथ्यात्वस्य न पतगृहत्वमित्यादिकं विभावनीयम् । दर्शनमोहनीयचारित्रमोहनीययोरायुषां मूलप्रकृतीनाश्च परस्परं न सङ्क्रमः । 15 यो यस्मिन् दर्शनमोहनीये वर्तते न तस्यान्यत्र संक्रमोऽविशुद्धदृष्टित्वात् । तथा परप्रकृतिषु संक्रान्तं दलिकमावलिकामात्रकालं बन्धावलिकागतमुदयावलिकागतमुद्वर्तनावलिकागतञ्चो. द्वर्तनादिसकलकरणायोग्यम् , दर्शनमोहनीयत्रिकवर्जमुपशान्तमोहनीयं सकलकरणायोग्य द्रष्टव्यम् । तत्र सम्यक्त्वसम्यमिथ्यात्वनरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्त कतीर्थकरोच्चैर्गोत्ररूपाश्चतुर्विंशतिप्रकृतय आयुश्चतुष्टयश्चाध्रुवसत्ताकम् । शेषं पुनस्त्रिंशदुत्तरं 20 प्रकृतिशतं ध्रुवसत्कर्म, ततोऽपि सातासातवेदनीयनीचैर्गोत्रमिथ्यात्वरूपं प्रकृतिचतुष्टयमप सार्यते, ततोऽवशिष्टास्सर्वा ध्रुवसत्कर्मप्रकृतयः षड्विंशत्युत्तरशतसंख्यास्सङ्गममधिकृत्य साद्यादिरूपतया चतुर्विधा अपि भवन्ति । आसां हि संक्रमस्संक्रमविषयप्रकृतिबन्धव्यवच्छेदे न भवति, तासां पुनर्बन्धारम्भे भवत्यतोऽसौ सादिः। तत्तद्वन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः, अभव्यस्य कदाचिदपि व्यवच्छेदाभावेन ध्रुवः। कालान्तरे व्यवच्छेदसम्भवेन भव्यस्य त्वध्रुवः। अध्रुवसत्कर्मणामध्रुवसत्कर्मत्वादेव संक्रमस्साद्यध्रुवः सातासातवेदनीयनीचैर्गोत्राणान्तु परावर्त्तमानत्वात्साद्यध्रुवोऽवसेयः, बध्यमाने सातेऽसातस्य, असाते वा तादृशे सातस्य, उच्चैर्गोत्रे तथाविधे नीचैर्गोत्रस्य, नीचैर्गोत्रे तादृशे उच्चैर्गोत्रस्य संक्रमो नान्यदाऽत १. बद्धमिथ्यात्वपुद्गलानां मदनकोद्रवस्थानीयानामौषवविशेषकल्पेनौपशमिकसम्यक्त्वानुगतेन विशोधिस्थानेन शुद्धार्धविशुद्धाविशुद्धकरणादिति भावः ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy