________________
संक्रमणम् ]
न्यायप्रकाशसमलङ्कृते । लोकाकाशप्रदेशप्रमाणाः शुभाः केवलं विशेषाधिकाः । यानेव ह्यनुभागबन्धाध्यव. सायान् क्रमिका संक्लिश्यमानः क्रमेणाधोऽध आस्कन्दति तानेव विशुध्यमानः क्रमेणो
मूर्ध्वमारोहतीति सोपानारोहणावतरणतुल्यानामुभयेषां साम्येऽपि क्षपकस्याध्यवसाय: विशेषे वर्तमानस्य श्रेणिमारोहतस्तेभ्यः प्रतिपाताभावेन शुभानामशुभापेक्षया विशेषत आधिक्यम् । एवञ्च येन केनाप्यध्यवसायेनानुभागनिमित्तेन जीवो योग्यपुद्गलादानसमये 5 कर्मपरमाणौ प्रत्येकं रसस्य निर्विभागान् भागान् सर्वजीवेभ्योऽनन्तगुणानुत्पादयति, कर्मवर्गणान्तःपातिनः कर्मपरमाणवो हि जीवग्रहणपूर्व प्रायो नीरसा एकस्वरूपा आसन् यदा तु जीवेन गृह्यन्ते ते तदानीं ग्रहणसमय एव काषायिकाध्यवसायेन तादृशतादृशरसा विभागा ज्ञानावारकत्वादिविचित्रस्वभावा आपद्यन्ते, जीवानां पुद्गलानाञ्च शक्तेरचिन्त्यत्वात् , न चेदमसम्भवि, गोगृहीतशुष्कतृणादिपरमाणूनामत्यन्तनीरसानामपि क्षीरादिरूप- 10 त्वेन सप्तधातुत्वेन च परिणामदर्शनात् , ते च रसा विभागाः कर्मपरमाणुषु क्वचित्स्तोकाः, क्वचित्तेभ्यः प्रभूताः, क्वचिच्च प्रभूततमा भवन्ति, अत्र वर्गणास्पर्धकादिविचाराः कर्मग्रन्थेभ्यो द्रष्टव्याः । स्थितिबन्धेऽपि संक्लेशस्थानानि विशोधिस्थानान्यपि सर्वत्रासंख्येयगुणतया पूर्ववदेव भाव्यानि, तत्र मूलप्रकृतीनां जघन्योत्कृष्टा च स्थितिरप्रेऽस्माभिर्वक्ष्यते मूल एव सा च कर्मरूपतयाऽवस्थानस्वरूपा विज्ञेया, अनुभवप्रायोग्या तु सैवाबाधाकालहीना, 15 येषां कर्मणां यावत्यस्सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधाकालो विज्ञेयः । अबाधाकालहीनश्च कर्मदलिकनिषेकः, जघन्यस्त्वबाधाकालोन्तर्मुहूर्त्तम् । बन्धकानाश्रित्य जघन्योत्कृष्टस्थितिविवेचना कर्मप्रकृत्यादितः कार्या । एवं स्थितिस्थानादिप्ररूपणान्यपि । इत्येवं बन्धनकरणविचारो दिशा दर्शित इति ॥ अथ सङ्क्रमणकरणं स्वरूपयति
20 अन्यकर्मरूपतया व्यवस्थितानां प्रकृतिस्थित्यनुभागप्रदेशानामन्यकर्मरूपतया व्यवस्थापनहेतुर्वीर्यविशेषस्संक्रमणम् ॥
__ अन्यकर्मेति । तथा तथा बध्यबन्धकभावे जीवकर्मणोहि परस्परं सव्यपेक्षत्वम् । जीवाध्यवसायविशेषमाश्रित्य कर्मवर्गणान्तःपातिनो जीवस्वप्रदेशागाढाः पुद्गला ज्ञानावरणीयादिकर्मरूपतया परिणमन्ते, जीवोऽपि स्वप्रदेशावगाढतथाविधकर्मविपाकोदयात्तथापरिणमते। 25 तत्र संक्लेशसंज्ञितेन विशोधिसंज्ञितेन वा येन वीर्यविशेषेणान्यकर्मरूपतया व्यवस्थितानांविवक्षितबध्यमानप्रकृत्यादिव्यतिरिक्ततया स्थितानां प्रकृत्यादीनां-अन्यकर्मरूपतया-बध्यमानासु प्रकृत्यादिषु मध्येऽबध्यमानप्रकृत्यादिदलिकं प्रक्षिप्य बध्यमानप्रकृतिरूपतया, बध्य