SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ :२५२: तत्त्वन्यायविभाकरे [ नवमकिरणे तुष्टयलक्षणमूह्यम् । कर्मणां स्थितिश्च मोदकस्य द्वित्रिदिनावस्थानरूपेव प्रतिनियतकालावस्थानरूपा, तस्य स्निग्धमधुरादिरसवत्कर्मणोऽपि रसः शुभाशुभादिः, तथा तस्य प्रदेशा यथैकद्विप्रसृत्यादिप्रमाणास्तथा कर्मणोऽपि बहुतरबहुतमादिरूपा अवसेयाः । तत्र प्रकृतिप्र देशबन्धौ योगतः स्थितिरसबन्धौ कषायत इत्याहात्रेति । युक्तिः पूर्वमेवोक्ता । प्रकृतिबन्धः 5 पूर्वमादर्शितः साधध्रुवादिश्च । प्रदेशबन्धोऽपि जन्तुनाष्टविधबन्धकेन यदेकेनाध्यवसायेन विचित्रतागर्भेण गृहीतं दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधबन्धकस्य सप्तभागाः, षडिधबन्धकस्य षड्भागा एकविधबन्धकस्य त्वेको भाग इति मूलप्रकृतिभागविभागा उक्ताः, तत्रोत्तरप्रकृतीनान्तु ज्ञानावरणीयस्य स्थित्यनुसारेण पूर्वोदितरूपेण यो मूलभाग आभजति तस्या नन्तनमो भागः केवलज्ञानावरणाय दीयते, तस्यैव भागस्य सर्वघातिप्रकृतियोग्यत्वात् , शेषस्य 10 भागचतुष्टयं विधाय मतिश्रुतावधिमनःपर्यवज्ञानावरणेभ्य एकैको भागो दीयते । दर्शनाव रणस्यापि यो मूलभागः प्राप्तस्तस्यानन्ततमं भागं षोढा विधाय सर्वघातिभ्यां निद्रापश्चककेवलदर्शनावरणाभ्यां दीयते, शेषस्य भागत्रयं विधाय चक्षुरचक्षुरवधिदर्शनावरणेभ्य एकैको भागो दीयते । अन्तरायस्य प्राप्तं मूलभागं निखिलमपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते, सर्वघात्यवान्तरभेदाभावात् । मोहनीयस्य लब्धभागेऽनन्ततमं सर्वघातिप्रकृतियोग्य 15 द्विधा कृत्वा दर्शनमोहनीयचारित्रमोहनीयाभ्यां प्रयच्छति । दर्शनमोहनीयस्य प्राप्तो भागस्सर्वोऽपि मिथ्यात्वमोहनीयस्यैव भवति चारित्रमोहनीयभागन्तु द्वादशधा विभज्याद्यद्वादश कषायेभ्यो दीयते । मोहनीयशेषभागं द्विधा कृत्वा कषायमोहनीयाय नोकषायमोहनीयाय च दीयते । कषायमोहनीयभागं चतुर्धा विधाय संज्वलनक्रोधादिभ्यः, नोकषाय मोहनीयभागं पश्चधा कृत्वा बध्यमानवेदाय बध्यमानहास्यादियुगलाय भयजुगुप्साभ्याश्च 20 दीयते, नान्येभ्यो बन्धाभावात् । तथा वेदनीयायुर्गोत्रेषु यो मूलभाग आभजति स एषां स्वस्वैकप्रकृतेर्बध्यमानाया उपढौकते द्विप्रभृतीनाममीषां युगपद्वन्धाभावात् । नाम्नो भागस्तु यदा यदा यावत्यो बन्धमायान्ति तावतीभ्यस्तदा तदा समानतया विभज्य दीयते । विस्तरोऽन्यत्र ॥ अनुभागस्य कारणं काषायिका अध्यवसायाः, ते च द्विधाः, शुभा अशुभाश्च, शुभैः क्षीरखण्डरसोपमाहादजनकभागं कर्मपुद्गलानामाधत्ते 25 निम्बकोशातकीरसोपमञ्चाशुभैः, ते च शुभा अशुभा वाऽध्यवसायाः प्रत्येकमसंख्येय १. मिथ्यात्वादिचतुष्टयस्य सामान्येन कर्मबन्धहेतुत्वेऽपि प्राथमिककारणत्रयाभावेऽप्युपशान्तमोहादिगुणस्थानकेषु योगबलतो वेदनीयस्य बन्धात् योगाभावनायोगिगुणस्थाने बन्धाभावाच्च प्रकृति प्रदेशबन्धयोयोग एव प्रधानं कारणमवसीयते, कर्मणो जघन्योत्कृष्टरूपतया स्थितिबन्धोत्तरकालीनस्थितिसेवनरूपमनुभवनश्च क्रोधादिरूपकषायजनितजीवाध्यवसायविशेषात्मककषायाद्भवतीति भावः ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy