________________
10
बन्धनकरणम् ] न्यायप्रकाशसमलङ्कृते
: २५१ : मलत्वादिपरिणामापादक एकेन्द्रियादीनां तत्तत्क्रियाप्रयोजकश्चाबुद्धिपूर्वकः, तत्रापि क्षायोपशमिकवीर्यलब्धिजन्यं छाद्मस्थिकं वीर्यमकषायिसकषायिभेदतो द्विविधमुपशान्तमोहक्षीणमोहानामकषायिकं सूक्ष्मसम्परायान्तानाञ्च सकषायिकं विज्ञेयं, तथाच बन्धाद्यनुकूलतया मनोवाक्कायसहकृतः कषायसहकृतश्च स्थूलसूक्ष्मपरिस्पन्दो वीर्यपरिणामविशेष उच्यते इति भावः । तत्तत्क्रियासहितानां मनोवाक्कायानान्तु योगात्मकत्वमितरस्य कषायात्मकत्वमेतौ कषाय- 5 योगौ च वीर्यमुच्यत इत्याशयेनाह-वीर्यश्चेति । अत्र बन्धादिप्रकरणे, योगः परिणामालम्बनग्रहणसाधनं प्रकृतिप्रदेशबन्धयोर्निमित्तं, कषायरिस्थतिरसबन्धहेतुः कषायाः क्रोधमानमायालोभास्तज्जनितो जीवस्याध्यवसायविशेषः कषायशब्देनेहोच्यते । एतस्य वीर्यविशेषस्य योगस्य विषयेऽविभागवर्गणास्पर्धकान्तरस्थानानन्तरोपनिधापरम्परोपनिधावृद्धिसमयजीवाल्पबहुत्वप्ररूपणाः कर्मप्रकृत्यादितोऽवसेयाः ॥
अथ करणविशेषान् लक्षयितुमुपक्रमतेकर्मणामात्मप्रदेशैस्सहान्योऽन्यानुगमनप्रयोजकवीर्यपरिणामो बन्धनकरणम् । अत्र योगात्मकवीर्येण प्रकृतिप्रदेशयोः कषायैश्च स्थित्यनुभागयोर्बन्धो जायते ॥
कर्मणामिति । जीवप्रदेशैस्सहान्योऽन्यानुगतीक्रियतेऽष्टप्रकार कर्म येन वीर्यविशेषेण 15 तद्वन्धनकरणमित्यर्थः । जीवो हि योगेनौदारिकादिशरीरयोग्यान् पुद्गलस्कन्धान गृह्णाति, तत्र योगानां जघन्यमध्यमोत्कृष्टत्वे पुद्गलानामपि स्तोकमध्यमप्रभूतानां ग्रहणं जायते, ग्रहणयोग्याः पुद्गलस्कन्धा अन्यतो विज्ञेयाः। स्वप्रदेशावगाढं ग्रहणयोग्यं दलिकमेकमपि सर्वैरेवात्मप्रदेशैः शृंखलावयवानामिव परस्परं सम्बद्धैर्गृह्णाति पुद्गलद्रव्याणाश्च परस्परं सम्बन्धस्स्नेहतो विज्ञेयः । तथाच बन्धनकरणसामर्थ्याद्वध्यमानानां मूलोत्तरप्रकृतीनां 20 ज्ञानावारकत्वादिस्वभाववैचित्र्याइँदो भवति । दृष्टश्चैतत्तणदुग्धादीनां स्वभावभेदाद्वस्तुभेदस्तथात्रापि कर्मत्वेन तुल्यत्वेऽपि स्वभावभेदाढ़ेदः । अयश्च प्रकृतिबन्धः, कर्मणां ज्ञानावारकत्वादिस्वभावस्यैव प्रकृतित्वात्, यथा मोदकस्य वातविनाशकत्वादिस्वभावः प्रकृतिः। तथाचाविवक्षितस्थितिरसप्रदेशः प्रकृतिबन्धोऽविवक्षितरसप्रकृतिप्रदेशः स्थितिबन्धोऽ विवक्षितप्रकृतिस्थितिप्रदेशो रसबन्धोऽविवक्षितप्रकृतिस्थितिरसः प्रदेशबन्ध इत्यपि बन्धच- 25
१. आत्मप्रदेशाश्चासंख्येयास्तषु सर्वप्रकृतिपुद्गला बध्यन्ते एकैकोऽप्यात्मप्रदेशोऽनन्तनावरणादिकर्मस्कन्धैर्बद्धः । अनन्तानन्तप्रदेशाः कर्मवर्गणाः पुद्गला बध्यन्ते । न संख्येयप्रदेशा नवाऽसंख्येयप्रदेशा नाप्यनन्तप्रदेशाः । अनन्ते राशौ पुनरनन्तपुद्गलप्रक्षेपादनन्तानन्त इति व्यवहार इति ॥ ..