________________
तस्वन्यायविभाकरे
[ अवमकिरने . बन्धाश्चैते चत्वार एकविधाध्यवसायविशेषेण जायन्ते सङ्क्रमोद्वर्त्तनादिकरणविशेषाश्च ॥
बन्धाश्चैत इति । एकविधेति, तथाकेनैवाध्यवसायेन चतुर्विधो बन्धो युगपज्जायत इत्यर्थः, न च कथं कार्यवैचित्र्यमिति वाच्यम् , योगस्य प्रकृतिप्रदेशबन्धयोः कषायस्य 5 स्थितिरसबन्धयोर्निमित्तत्वेन विचित्रैकाध्यवसायेन विचित्रकार्योत्पत्तौ बाधकाभावात् तथाच योगेन कषायेण च सामान्येन गृहीतानां कर्मपुद्गलानां विचित्राध्यवसायविशेषादेकविधाज्ज्ञानावरणीयत्वादिभेदेन स्थितिमत्त्वेन रसवत्वेन प्रदेशवत्त्वेन च परिणमनं जायत इति भावः । न केवलं बन्धा एवैते एकविधाध्यवसायेन जायन्ते किन्तु करणविशेषा अपीत्याह सङ्कमेति ॥
कियन्ति करणानीत्यत्राह10 करणविशेषाश्च बन्धनसङ्कमोद्वर्त्तनापवर्तनोदीरणोपशमनानिधत्तिनिकाचनाभेदादष्टविधाः॥
करणविशेषाश्चेति । दात्रादिद्रव्यकरणे क्षेत्रकरणे कालकरणे भावकरणे निष्पादने संयमव्यापारे समाचरणे करणकारणानुमोदनरूपे करणत्रिके जीववीर्यविशेषेऽपि च करण
शब्दप्रवृत्तरत्र जीववीर्यविशेषग्रहणाय विशेषपदमुक्तम् । बध्यते येन, संक्रम्यन्ते येन, 15 उद्वत्येते यया, अपवयेते यया, उदीयते यया, उपशम्यते यया, निधीयते यया, निकाच्यते
ययाऽऽत्मपरिणत्याऽध्यवसायरूपयेति तत्तच्छब्दव्युत्पत्तिरवसेया। तत्र बन्धनकरणाध्यवसायास्सर्वस्तोकास्तेभ्य उदीरणाध्यवसाया असंख्येयगुणास्ततोऽपि संक्रमाध्यवसाया असंख्येयगुणा उद्वर्त्तनापवर्त्तने संक्रमभेदावतस्तत्रान्तर्भावः । तत उपशान्तोपशमनाध्यवसाया असंख्येयगुणास्ततोऽपि निधत्त्यध्यवसायास्ततोऽपि निकाचनाध्यवसाया इति । • अथ करणस्वरूपमादर्शयति
तत्र बद्धात्मनो वीर्यपरिणामविशेषः करणं । वीर्यश्चात्र योगकषायरूपं विवक्षितम् ॥
तत्रेति । बद्धात्मन इति, सलेश्यस्येत्यर्थः, तेनायोगिनां सिद्धानाश्च व्यावृत्तिस्तद्वीर्यस्य बन्धाद्यहेतुत्वात् । वीर्यपरिणामविशेष इति । क्षायिकक्षायोपशमिकरूपवीर्यलब्धिजन्यो 25 वीर्यविशेष इत्यर्थः, अयश्च छद्मस्थानां सयोगिनाश्च भवति, उभयेषामपि स बुद्ध्यधुद्धिपू.
वकत्वाभ्यां द्विविधः, धावनवल्गनादिक्रियासु नियुज्यमानो बुद्धिपूर्वकः, भुक्ताहारस्य धातु