________________
बन्धविचार:
म्यायप्रकाशसमलते नत्वात्। उपशान्ताद्यवस्थायां पुनरनुत्कृष्टबन्धगमने च स नावश्यं भवतीत्यध्रुवः । जघन्यः पुनरमीषां षटुर्मणां प्रदेशबन्धोऽपर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधबन्धकस्य सूक्ष्मनिगोद स्य भवाद्यसमये लभ्यते, द्वितीयादिसमये त्वसंख्येयगुणवृद्धेन वीर्येणास्य वर्धमानत्वात् , द्वितीयादिसमयेष्वयमप्यजघन्यं बध्नाति, पुनस्संख्यातेनासंख्यातेन वा कालेन पूर्वोक्तजघन्ययोगं प्राप्य स एव जघन्यप्रदेशबन्धं करोति पुनरप्यजघन्यमित्येवं जघन्याजघन्ययोः प्रदेशबन्ध- 5 योस्संसरतामसुमतां द्वावपि साद्यध्रुवौ भवतः । मोह आयुषि च चतुर्विधे प्रदेशबन्धे साद्यध्रुवलक्षणो द्विविधो बन्धो भवति । मिथ्यादृष्टिस्सम्यग्दृष्टिोऽनिवृत्तिबादरान्तस्सप्तविधबन्धकाल उत्कृष्टयोगे वर्तमानो मोहनीयस्योत्कृष्ट प्रदेशबन्धं, पुनरनुत्कृष्टयोगं प्राप्यानुत्कृष्टं प्रदेशबन्धं करोति पुनरुत्कृष्टं पुनरप्यनुत्कृष्टमित्येवमुत्कृष्टानुत्कृष्टप्रदेशयोस्संसरतां जन्तूनां द्वावपि बन्धौ साद्यध्रुवौ भवतः, जघन्याजघन्यौ त्वेतत्प्रदेशबन्धौ सूक्ष्मनिगोदादिषु संसरताम- 10 सुमतां कर्मषटूनिरूपण उपर्येव भावितौ तद्वदेवात्रापि । आयुष्कस्य त्वध्रुवबंधित्वादेव तत्प्रदेशबन्ध उत्कृष्टादिचतुर्विकल्पोऽपि साद्यध्रुव एव भवतीति, एवंरूपेण कर्मपुद्गलाना. मेव प्रकृतिस्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव यद्ग्रहणं करोति स प्रदेशबन्धो विज्ञेयः । तत्र योगस्थानानि कास्णं प्रकृतयः प्रदेशाश्च तत्कार्य, स्थितिबन्धाध्यवसायस्थानानि कारणं स्थितिविशेषास्तत्कार्य, अनुभागबन्धाध्यवसायस्थानानि कारणमनुभागस्था- 15 नानि तत्कार्य, तथा प्रकृतिप्रदेशबन्धयोर्योग एव प्रधानं कारणं, मिथ्यात्वाविरतिकषायाणामभावेऽपि उपशान्तमोहादिगुणस्थानेषु वेदनीयस्य प्रकृतिप्रदेशबन्धसद्भावात् । स्थित्यनुभागबन्धयोस्तु कषायजनितजीवाध्यवसायविशेषः कारणं तदभावे उपशान्तमोहादिषु तयोरभावात् मिथ्यात्वाविरत्यभावेऽपि प्रमत्तादौ कषायसद्भावेन तयोस्सत्त्वाच्च । मिथ्यादृष्टिगुणस्थानवर्ती मिथ्यात्वादिचतुःप्रत्ययैर्ज्ञानावरणादिकर्म सास्वादनमिश्राविरतिदेशविरति- 20 लक्षणेषु मिथ्यात्वव त्रिभिः, प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायेषु कषाययोगाभ्यां, उपशान्तमोहक्षीणमोहसयोगिषु योगेन यथायोगं बध्नाति । इति मूलप्रकृत्याश्रयेण सामान्येन बन्धा उक्ताः, उत्तरप्रकृत्याश्रयेण तु कर्मप्रकृत्यादितोऽवसेया इति दिक् ।।
ननु जीवो रागाद्याविष्टो यत्कर्म बध्नाति तदध्यवसायविशेषेण, तत्र किं चतुर्विधमपि बन्धमेकेनैवाध्यवसायेन बध्नाति, उत विभिन्नेन, तत्र यद्येकेन तर्हि कथमेकेन बन्धवै- 25 चित्र्यं, यदि त्वनेकेन तर्हि तादृशतादृशाध्यवसायविगमे तादृशतादृशबन्धाभावप्रसक्त्या कदाचिद्रागिणोऽपि प्रकृतिबन्धमानं कदाचित्स्थितिबन्धसहितं, कदाचित्रयं कदाचिञ्चतुष्टयमपि स्थानतु चतुष्टयनियमो न चैतदिष्टमित्याशंकायामाह