________________
:२४८ तस्वन्यायविभाकरे
[ नवमकिरणे हि जीवो यदाऽऽयुषो बन्धकालेऽष्टविधबन्धको भवति, तदाऽनन्तस्कन्धात्मकस्य शेषकर्मापेक्षया आयुषोऽल्पस्थितिकत्वेन गृहीतस्य कर्मद्रव्यस्य सर्वस्तोको भाग आयुष्कतयापरिणमति । तत आयुष्कभागापेक्षयाधिकस्स्वस्थाने तुल्यस्थितिकत्वेन तुल्यो नामगोत्रयोभीगः, ततस्तयोरपेक्षया विशेषाधिकस्स्वस्थाने तुल्यस्थितिकत्वेन तुल्योऽन्तरायावरणयोर्भागः, ततस्तयोरधिको 5 मोहनीयस्य भागः, ततो वेदनीयस्याधिकः, सुखदुःखजननस्वभावस्य वेदनीयस्य तद्भावपरिणतपुद्गलानामाधिक्यत एव स्वकार्यजननसमर्थत्वात् शेषाणान्तु स्वल्पत्वेऽपि तत्सम्भवात् । वेदनीयाच्छेषकर्मणां भागस्य हीनाधिकत्वे स्थितिविशेष एव निबन्धनम् , यथा नामगोत्रादेरायुष्काद्यपेक्षया स्थितेराधिक्ये तयोर्भागस्याधिकत्वं हीनत्वे च हीनत्वमिति । यद्यपि स्थित्यनुरोधेन भागो भवन्नायुषस्सकाशानामगोत्रयोर्भागस्य संख्यातगुणत्वं स्यात्तथापि गत्यादि10 निखिलकर्मकलापानामायुष्कोदयमूलत्वेनायुषः प्रधानत्वाद् बहुपुद्गलद्रव्यं तत् । तयोर्भागस्य विशेषाधिकत्वन्तु नामगोत्रयोस्सततबन्धित्वेन, आयुष्कं हि कादाचित्कबन्धि, ततोऽल्पद्रव्यम् । यद्यपि च ज्ञानावरणाद्यपेक्षया मोहनीयभागस्य संख्यातगुणस्थितिकत्वेन संख्यातगुणत्वं प्राप्तं न विशेषाधिकत्वं तथापि चारित्रमोहनीयस्य कषायलक्षणस्य चत्वारिंशत्साग
रोपमकोटीकोटीस्थितिकत्वेनैतदपेक्षया तद्भागस्यविशेषाधिकत्वमुक्तं, दर्शनमोहनीयद्रव्यं तु 15 सर्वघातित्वेन चारित्रमोहनीयदलिकादनन्तभाग एव वर्तत इति न किञ्चित्तेन वर्धत इति ।
तत्राल्पतरप्रकृतिबन्धस्सर्वोत्कृष्टयोगव्यापारवान् पर्याप्तस्संज्ञीजीव उत्कृष्टप्रदेशबन्धं करोति, बहुतरप्रकृतिबन्धको मन्दयोगोऽपर्याप्तकोऽसंज्ञी जघन्यप्रदेशबन्धं विधत्ते । तथा प्रदेशबन्धश्चतुर्विध उत्कृष्टोऽनुत्कृष्टो जघन्योऽजघन्यश्चेति । सर्वबहवः कर्मस्कन्धा यदा गृह्यन्ते स
उत्कृष्टः प्रदेशबन्धः, ततस्स्कन्धहानिमाश्रित्य यावत्सर्वस्तोककर्मस्कन्धग्रहणं तावत्सर्वोऽप्य20 नुत्कृष्टः, यदा सर्वस्तोककर्मस्कन्धग्रहणं स जघन्यः, तत एकस्कन्धवृद्धिमाश्रित्य यावत्सर्वबहु
स्कन्धग्रहणं तावत्सर्वोऽप्यजघन्यः । तत्र ज्ञानदर्शनावरणवेदनीयनामगोत्रान्तरायलक्षणमूलप्रकृतिषट्रेऽनुत्कृष्ट एव प्रदेशबन्धः साद्यनादिध्रुवाध्रुवरूपेण चतुर्विधः, प्रकृतिषटूस्योत्कृष्टप्रदेशबन्धः क्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ
यावत्प्राप्यते, मोहनीयायुःकर्मद्वयस्याबन्धकत्वात्तस्य, उत्कृष्टयोगेनैवोत्कृष्टप्रदेशबन्धलाभादु25 त्कृष्टयोगस्य, उत्कृष्टयोगावस्थानकालस्य तावन्मानत्वादेकद्विसमयस्यात्रग्रहणम् । तथाचोत्कृष्टं
प्रदेशबन्धं विधायोपशान्तमोहावस्थाश्चारुह्य पुनः प्रतिपत्योत्कृष्टयोगाद्वाऽस्मादेव प्रतिपत्य यदा पुनरनुत्कृष्टप्रदेशबन्धं करोति तदाऽसौ सादिः । एतत्स्थानमप्राप्तपूर्वाणामनादिर्निरन्तरं बध्यमानत्वात् । ध्रुवोऽभव्यानां भव्यानां त्वध्रुव इति । जघन्येऽजघन्ये उत्कृष्टे च सायध्रुवलक्षणो द्विप्रकारो बन्धः । उपरि वर्णितस्सूक्ष्मसम्पराय उत्कृष्टप्रदेशबन्धस्सादिस्तत्प्रथमतया बध्यमा