________________
प्रदेशबन्धः ]
म्याथप्रकाशसमलङ्कृत
: २४७ :
तत्र गिरिरेखासदृशैरनन्तानुबन्धिभिः कषायैरशुभप्रकृतीनां चतुस्स्थानिकरसबन्धः, आतपशोषिततडागमहीरेखासदृशैरप्रत्याख्यानावरणैस्त्रिस्थानिकरसबन्धः, वालुकारेखासदृशैः प्रत्याख्यानावरणैर्द्विस्थानिकरसबन्धः, जलरेखासदृशैस्संज्वलनाभिधैः कषायैः पूर्वोदित सप्तदशाशुभप्रकृतीनामेकस्थानिकरसबन्धः । शुभानान्तु वालुकाजलरेखासदृशैः कषायैश्चतुस्थानकरसबन्धः, महीरेखासदृशैस्त्रिस्थानिको रसबन्धः, गिरिरेखासहशैर्द्वि स्थानिको रसबन्धः, 5 आसामेकस्थानिकरसबन्धो नास्त्येव । तत्रानुभागो रागद्वेषपरिणामवशेन जीवेन कर्मरूपतया परिणमितस्याऽऽत्म प्रदेशैस्संश्लेषमुपगतस्य पुनरप्यावेष्टन परिवेष्टनरूपतयाऽतिगाढतरं बद्धस्याऽबाधाकालातिक्रमेणोत्तरकालवेदनयोग्यतया संचितस्योत्तरोत्तरस्थितिषु प्रदेशहान्या रसवृद्ध्याऽवस्थापितस्य समानजातीयप्रकृत्यन्तरदलिककर्मणोपचयं नीतस्येषत्पाकाभिमुखीभूतस्य विशिष्टपाकमुपागतस्यातएव फलं दातुमभिमुखीभूतस्य सामग्रीवशादुदयप्राप्तस्य बद्धेन 10 जीवेन निष्पादितस्याऽनाभोगिकवीर्येण बन्धसमय एव ज्ञानावरणीयादितया व्यवस्थापितस्य प्रदोषनिह्नवादिविशेषप्रत्ययैरुत्तरोत्तरं परिणामं प्रापितस्य परनिरपेक्षमुदयप्राप्तस्य परेण वोदयमुपनीतस्य स्वपररूपेण वोदयमुपनीयमानस्य कर्मणः काचिद्गतिं स्थितिं भवं वा प्राप्य स्वयं, परं वा पुलपरिणामं प्राप्य भवति, तत्र ज्ञानावरणीयस्य दर्शविधः, दर्शनावरणीयस्य नवविधः, वेदनीयस्याष्टविधः, मोहनीयस्य पञ्चविधः, आयुषश्चतुर्विधः शुभाशुभनामकर्मण- 15 श्चतुर्दशविधः, गोत्रस्याष्टविधः, अन्तरायस्य पञ्चविध इति । तदेवं कृतस्थितिकस्य स्वस्मिन् काले परिपाकमितस्य या शुभाशुभाकारेणानुभूयमानावस्था स रसबन्ध इति दिक् ॥
अथ प्रदेशबन्धमाह -
प्रकृत्यादित्रयनिरपेक्षं दलिकसंख्याप्राधान्येन कर्मपुद्गलानां ग्रहणं प्रदेशबन्धः ॥
प्रकृत्यादीति । तत्राष्टविधबन्ध के नैकाध्यवसायेन गृहीतस्याष्टौ भागाः सप्तविधबन्धकस्य सप्तभागाः षड्विधबन्धकस्य षड्भागाः, एकविधबन्धकस्यैको भाग इति दलिकानां भागाः, तत्र
१. श्रोत्रेन्द्रियविषयक्षयोपशमावरणश्रोत्रेन्द्रियोपयोगावरणचक्षुर्विषयक्षयोपशमावरणचक्षुरुपयोगावरणघ्राण
विषयक्षयोपशमावरणत्राणोपयोगावरण र सनाविषयक्षयोपशमावरणरसनोपयोगावरणस्पर्शनविषयक्षयोपशमावरणस्पर्शनोपयोगावरणरूपेण दशविधः । निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचलास्त्यानर्द्धिचक्षुर्दर्शनावरणाचक्षुदर्शनावरणावधिदर्शनावरण केवलदर्शनावरणरूपेण नवविधः । मनोज्ञशब्दरूपगंधरसस्पर्शा मनोवचः काय सुखिता चेत्यष्टविधः । सम्यक्त्ववेदनीयमिथ्यात्ववेदनीय सम्य मिथ्यात्व वेदनीयकषायवेदनीय नोकषाय वेदनीयभेदतः पञ्चविधः । २. प्रज्ञापनायास्त्रयोविंशतिपदमत्र द्रष्टव्यम् ।
20