________________
: २४६: तत्त्वन्यायविभाकरे
[ नवमकिरणे फलं दातुमभिमुखीभूतानां विशिष्टकर्मस्कन्धानां ज्ञानावरणीयत्वादिना व्यवस्थापितकर्मस्कन्धानां शुभाशुभविपाकानुभवनयोग्यावस्था रसबन्ध इत्यर्थः, विपाकानुभावो हि द्विविधः शुभोऽशुभश्चेति शुभप्रकृतीनां शुभो रसः शुभाध्यवसायनिष्पन्नत्वात् , अशुभप्रकृतीनाश्चा
शुभोऽशुभाध्यवसायनिष्पन्नत्वात् , तत्राशुभप्रकृतीनां तादृशतादृशकषायनिष्पाद्यः कटुकः 5 कटुकतरः कटुकतमोऽतिकटुकतमः शुभप्रकृतीनाञ्च मधुसे मधुरतरो मधुरतमोऽतिमधुरतरश्च रसो यथासंख्यमेकद्वित्रिचतुस्स्थानिको भवति, निम्बरसवदिक्षुरसवच्च, निम्बादीनामिक्ष्वादीनां हि सहजोऽक्वथितः कटुको मधुरश्च रस एकस्थानिक उच्यते स एव भागद्वयप्रमाणस्स्थाल्यां कथितोऽर्धावर्तितः कटुकतरो मधुरतरश्च द्विस्थानिको भवति, भागत्रयप्रमाणश्च कथितः
कटुकतमो मधुरतमस्त्रिस्थानिको भागचतुष्टयप्रमाणो विभिन्नस्थाने कथितश्चतुर्थभागान्तोऽति10 कटुकतमोऽतिमधुरतमश्च भवति, एवं कर्मापि । इयमुपमा सर्वजघन्यस्पर्धकरसस्य जघ
न्यात्मिका विज्ञेया। स्पर्धकान्यसंख्यानि भवन्ति, उत्तरोत्तरस्पर्धकानि चानन्तगुणरसानि, अशुभानां निम्बोपमवीर्यो य एकस्थानिको रसस्तस्मादनन्तगुणवीर्यो द्विस्थानिकस्ततोऽप्यनन्तगुणवीर्यत्रिस्थानिकस्तस्मादप्यनन्तगुणवीर्यश्चतुस्स्थानिकः । शुभप्रकृतीनां सर्वासां पुनरे
कस्थानिको रसो नास्त्येव, इतिपश्चसंग्रहाभिप्रायः, दानलाभभोगोपभोगवीर्यान्तरायाणां 15 पश्चानां मतिश्रुतावधिमनःपर्यवज्ञानावरणानां चतुण्णां चक्षुरचक्षुरवधिदर्शनावरणानां त्रयाणां
पुंवेदसंज्वलनक्रोधमानमायालोभानां मेलनया सप्तदशविधानां कर्मणामेवैकस्थानिकरसवत्वं तद्भिन्नाशुभप्रकृतीनामपि एकस्थानिको रसो न भवति, अनिवृत्तिबादरासंख्येयभागेभ्यः परत एव तत्प्राप्तिसंभवेन तत्र च सप्तदशप्रकृतीविना शिष्टानां बन्धस्यैवाभावात् केवलज्ञान
दर्शनावरणयोस्तत्र बन्धेऽपि सर्वघातित्वेन तयोढिस्थानिकरसवत्त्वेनैव निर्वर्त्तनात् । शुभा20 नामकस्थानिकरसाभावे कारणन्तु संक्लेशस्थानानि विशोधिस्थानानि च प्रत्येकमसंख्येयलो
काकाशप्रदेशप्रमाणानि, प्रासादमारोहतामारोहणे सोपानस्थानानि यावन्ति, तावन्त्येव यथाऽवतरतामपि, तथा यान्येव क्षपकभिन्नो विशुद्धिसंक्लेशस्थानान्यारोहति संक्लिश्यमानस्तावत्स्थानान्यवरोहति तेष्वेवावतारात् विशुद्धिस्थानानि तु विशेषाधिकानि क्षपकश्रेणिकामारोहतः क्षप
कस्य विशुद्धिस्थानेषु पुनस्संक्लेशाभावतो निवर्त्तनाभावात् अतस्तानि विशुद्धिस्थानान्येव, न तु 25 संक्लेशस्थानानि तस्माद्विशुद्धिस्थानानामधिकत्वं तथाचात्यन्तविशुद्धौ वर्तमानश्शुभप्रकृतीनां
चतुस्स्थानिक रसमभिनिवर्तयति, अत्यन्तसंक्लेशे वर्तमानस्य शुभप्रकृतयो बन्ध एव नागच्छन्ति। या अपि वैक्रियतैजसकार्मणाद्याश्शुभा नरकप्रायोग्यास्संक्लिष्टोऽपि बध्नाति तासामपि स्वभावतस्सर्वसंक्लिष्टोऽपि द्विस्थानिकमेव रसं विदधाति । येषु मध्यमाध्यवसायस्थानेषु शुभप्रकृतयो बध्यन्ते तेषु तासां द्विस्थानिकपर्यन्त एव रसो बध्यते नैकस्थानिको मध्यमपरिणामत्वादेव ।