________________
रसबन्धः ]
म्यायप्रकाशसमलङ्कृते
: २४५ :
णामविशेषेणेति, अध्यवसायविशेषेणेत्यर्थः । आत्मा हि सर्वप्रकृतिप्रायोग्यपुद्गलान् सामान्येनादाय तानध्यवसायविशेषेण ज्ञानावरणीयत्वादिरूपेण परिणमयति तथापरिणमने हेतुरध्यवसायविशेष उक्तः । स्वस्वयोग्यकार्यव्यवस्थापनमिति । तेषां पुद्गलानां स्वस्वयोग्यकार्यकरणसमर्थतयाऽऽरचनमित्यर्थः । केषाञ्चित्पुद्गलानां ज्ञानावरणसमर्थत्वेन केषादिर्शनावरणसमर्थत्वेन केषाञ्चित्सुखदुःखानुभवसमर्थतया केषाञ्चिद्दर्शनचारित्रमोहकतया केषा- 5 विदायुङ्खेन केषाञ्चिद्गतिशरीराद्याकारेण केषाञ्चिद्गोत्रत्वेन केषाञ्चिच्चान्तरायत्वेन व्यवस्थापनमितिभावः । स्थित्यनुभाग प्रदेशबन्धानां यस्समुदायस्स प्रकृतिबन्ध इत्यपि लक्षणं कषायप्रयुक्तप्रकृतिबन्धे सङ्गच्छते न तूपशान्तमोहादौ केवलयोगवशाद्बध्यमाने प्रकृतिबन्धे तत्र स्थित्यनुभागाभावात् यदि तु तत्रापि समयद्वय स्थितिः कश्चनानुभागोऽपि विद्यत इति विभाव्यते तदा लक्षणमिदं युज्यत एवेति बोध्यम् ॥
अधुना स्थितिबन्धमाह—
प्रविभक्तानां कर्मस्कन्धानां विशिष्टमर्यादया स्थितिकालनियमनं स्थितिबन्धः ॥
10
प्रविभक्तानामिति | ज्ञानावरणीयत्वादिरूपेण प्रविभक्तानामित्यर्थः, विशिष्टमर्यादयेति, यथा ज्ञानावरणदर्शनावरणान्तराय वेदनीयानां त्रयस्त्रिंशत्सागरोपमकोटी कोट्यः सप्ततिर्मोह - 15 नीयस्य नामगोत्रयोविंशतिरायुषस्त्रयस्त्रिंशत्सागरोपमाणि परास्थितिर्जघन्या च द्वादशमुहूर्त्ता वेदनीयस्य नामगोत्रयोरष्टौ शेषाणामन्तर्मुहूर्त्तमित्येव रूपेणेति भावः, इत्थं यत्स्थितिकालस्य नियमनं स स्थितिबन्ध इत्यर्थः । स्थितिरियं द्विधा कर्मत्वेनावस्थितिरूपाऽनुभवयोग्या चेति, तत्राद्यभेदमधिकृत्य जघन्योत्कृष्ट प्रमाणमभिहितं द्वितीया चाबाधाकालहीना येषां कर्मणां यावत्यस्सागरोपमकोटी कोट्यस्तेषां तावन्तिवर्षशतान्यबाधाकालः तत्र च स्वोदयतः कर्म 20 काचिदपि बाधां जीवस्य नोत्पादयति, नवा तत्र वेद्यदलिकनिक्षेपः किन्तु तत ऊर्ध्वमेव, तथाचाबाधाकालहीनाऽनुभवयोग्या स्थितिरिति भाव्यम्, विशेषप्रकृतीनां स्थितिस्तु तत्तनिरूपण एवोक्तेति ॥
अथ रसबन्धमाचष्टे—
परिपाकमुपयातानां विशिष्टकर्मस्कन्धानां शुभाशुभविपाकानुभव- 25 नयोग्यावस्था रसबन्धः ॥
परिपाकेति । रसबन्धोऽनुभावबन्धोऽनुभागबन्ध इति पर्यायाः । परिपाकमुपयातानां