________________
:२४४: तत्त्वन्यायविभाकरे
[ नवमकिरणे त्यसाविति प्रतीतिजननादिकं प्राणापानफलमस्तीति वाच्यम् , एवंविधप्रयोजनमात्रस्य सर्वत्र विद्यमानत्वेन धावनवल्गनादिव्यापाराणामपि योगत्वप्रसङ्गात् तस्माद्विशिष्टव्यवहाराङ्गभूतपरप्रत्ययनादिफलत्वाद् वाङ्मनोयोगावेव पृथग्वाच्यौ तदेवं तनुयोगो वानिसर्गविषये व्याप्रियमाणो वाग्योगो मनने व्याप्रियमाणो मनोयोगो भवति वाग्विषयो योगो वाग्योगः 5 मनोविषयो योगो मनोयोग इतिव्युत्पत्तेः । यद्वा काययोगगृहीतवाग्द्रव्यसमूहसाचिव्यात्तन्निसर्गार्थ यो जीवव्यापारविशेषस्स वाग्योगो वाचा सहकारिकारणभूतया जीवस्य योगो वाग्योग इति व्युत्पत्तेः, काययोगगृहीतमनोद्रव्यसमूहसहकारेण वस्तुचिन्तनाय योऽयं जीवस्य व्यापारः स मनोयोगो मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति
व्युत्पत्तेः, अस्मिन् पक्षे च मनोवाग्योगी काययोगाद्भिन्नावेव, वाङ्मनोद्रव्यनिसर्गचिन्त10 नादिकाले सतोऽपि काययोगस्याविवक्षणादितिदिक् ॥
तदेवं सप्रभेदान् बन्धहेतूनभिधाय प्रकृतिस्थित्यनुभागप्रदेशरूपेण चातुर्विध्यस्य बन्धस्य पूर्वोक्तस्वरूपस्य प्रथमं प्रकृतिबन्धमधुना लक्षयति
रक्तद्विष्टात्मसम्बद्धानां कार्मणस्कन्धानां परिणामविशेषेण स्वस्वयोग्यकार्यव्यवस्थापनं प्रकृतिबन्धः ॥ 15 रक्तद्विष्टेति । रागो मायालोभकषायलक्षणः, द्वेषः क्रोधमानकषायलक्षण
स्ताभ्यां केवलयोगेन वा युक्तेनात्मना सम्बद्धानां गृहीतानामित्यर्थः, अत एव रक्तद्विष्टसंबद्धानामित्यनुक्त्वा रक्तद्विष्टात्मसंबद्धानामित्युक्तं तेनाकषायिबन्धस्यापि संग्रहः । अनेनात्मनि कर्मसम्बन्धे हेतुरादर्शितः, रागादिस्नेहगुणयोगादात्मनि कर्मपुद्गलद्रव्यं लगतीति । कार्मणस्कन्धानामिति, कर्मयोग्यस्कन्धानामित्यर्थः । एतेन क्षेत्रान्तराव20 गाढाः कर्मपुद्गला न ग्रहणयोग्या भिन्नैदेशस्थानां ग्रहणयोग्यत्वाभावादिति सूचितम्, यत्र
ह्याकाशे जीवोऽवगाढस्तत्र य आकाशप्रदेशा आत्मन्याश्रितास्तत्र ये कर्मपुद्गला रागादिस्नेहयोगत आत्मनि लगन्ति त एव कर्मपुद्गला जीवानां सङ्ग्रहयोग्या इति गूढार्थः । परि
. १. विशिष्टो हेतुरादर्शितः, तेन मिथ्यादर्शनाविरत्यादीनां कर्मबन्धहेतुत्वेऽपि न क्षतिः, उक्तञ्च ‘यदतिदुःखं लोके यच्च सुखमुत्तमं त्रिभुवने । तजानीहि कषायाणां वृद्धिक्षयहेतुजं सर्व' मिति । तत्र रागद्वेषहेतुकोबन्धस्स साम्परायिकबन्ध उच्यते, केवलयोगहेतुको बन्ध ईर्यापथिकबन्ध उच्यते. स चोपशान्तक्षीणमोहसयोगिकेवलिनां भवति, वेदनीयस्यैकस्यैव च स बन्धो विज्ञेय इति । २. अनाश्रितानां तद्भावपरिणामाभावादिति भावः । ३. न तु गतिसमापन्ना इत्यर्थः, गतिपरिणता हि ते वेगवत्त्वात् गच्छेयुरेव, नत्वात्मनि टिष्यन्त इति भावः ।