________________
योग: न्यायप्रकाशसमलङ्कृते
: २४३ : न्तरायक्षयोपशमजन्यवीर्यविशेषस्यैव सकरणस्य कर्मसम्बन्धकस्याधिकृतत्वात्। तत्रौदारिकादि शरीरस्यात्मनोवीर्यपरिणतिविशेषः काययोगः, औदारिकवैक्रियाऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यपुञ्जसाचिव्याजीवव्यापारो वाग्योगः, मनसा करणेन युक्तस्य जीवस्य योगो जीवपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोगः । सोऽयं मनोव्यापारो वाग्व्यापारश्च प्रत्येकं सत्यमृषासत्यमृषाऽसत्यमृषाभेदेन चतुर्विधत्वादुभयमेलनेनाष्टविधमनोवारजन्यो योग 5 इत्याशयेनाह सत्यासत्येति । मिश्रः सत्यमृषारूपो व्यवहारोऽसत्यमृषारूपः। काययोगस्य भेदमाह तथेति तत्र शुद्धा औदारिकवैक्रियाऽऽहारककार्मणशब्दा व्याख्याता औदारिकमिश्रस्तूच्यते औदारिक एवापरिपूर्णो मिश्र इति, यथा गुडमिश्रं दधि न गुडतया नापि दधितया व्यपदिश्यते ताभ्यामपरिपूर्णत्वादपितु मिश्र इति तद्वदत्रापि औदारिकमिश्रमौदारिकत्वेन कार्मणत्वेन वा न व्यपदिश्यते किन्तु औदारिकमिश्रतयेति, एवं वैक्रियाऽऽहारकमिश्रावपि । 10 यद्वा शुद्धा औदारिकाद्यास्तत्पर्याप्तकस्य मिश्रास्त्वपर्याप्तकस्येति । तत्रोत्पत्तावौदारिककायः कार्मणेन, औदारिकशरीरिणश्च वैक्रियाऽऽहारककरणकाले च वैक्रियाहारकाभ्यां मिश्रो भवतीत्यौदारिकमिश्रः । देवाद्युत्पत्तौ कार्मणेन वैक्रियमिश्रः कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारिकेण । आमरकमिश्रस्तु साधिताऽऽहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति । कार्मणस्तु विग्रहे केवलिसमुद्घाते चेति । एतेभ्यो जन्या 15 व्यापारा सप्त कायव्यापारा इतिमिलित्वा पश्चदशयोगा भवन्तीतिभावः । ननु मनोवाग्योगाः काययोगविशेषा एव, शरीरिणां कस्याश्चिदप्यवस्थायां काययोगस्यानिवृत्तः, अशरीरिणामेव तन्निवृत्त्यभ्युपगमात् तथा च मनोवाग्योगास्तद्भिन्ना न सन्तीति चेदुच्यते, एकस्यैव काययोगस्योपाधिभेदात्तथाव्यवहारात् । येन काययोगेन हि मनोवाग्द्रव्याणामुपादानं करोति स काययोगः, येन संरम्भेण वचोद्रव्याणि मुञ्चति स वाग्योगः, येन तु मनोद्रव्याणि 20 चिन्तायां व्यापारयति स मनोयोग इति । तथाच मनोवाग्योगौ काययोग एव, कायेनैव तद्रव्यग्रहणात् , प्राणापानवत् यथाहि प्राणापानव्यापारः कायेनैव तद्रव्यग्रहणात्कायिकयोगान्न भिद्यते तथा मनोवाग्योगावपि, न चेत्तथा, प्राणापानयोगोऽपि योगान्तरं स्यान्न चैतदिष्टं, तस्मात्काययोग एवाऽयं तद्वदिमावपि । न च मनोवाग्योगवत्प्राणापानव्यापारः किमितिनोक्तः, काययोगत्वस्याविशेषात् , अन्यथा प्राणापानव्यापारवत्तौ पृथग् न वाच्यावुपाधि- 25 भेदेनापि, उपाधिभेदेन योगचतुष्टयस्यैव वक्तव्यत्वौचित्यादितिवाच्यम् लोकलोकोत्तररूढस्य व्यवहारस्य सिद्ध्यर्थं तावेवोक्तत्वात् कायव्यापारातिरिक्ततया हि वाग्व्यापारो मनोव्यापारश्च स्पष्टतया दृश्यते लोके, यथा वाचः स्वाध्यायाचरणं परप्रबोधनादिकं मनसश्च धर्मध्यानादिकं व्यापारः, नैवं प्राणापानयोस्तयो स्तनुयोगान्तर्वर्तितयैव व्यवहारात् न चः जीवय