________________
:२४२: तस्वन्यायविभाकरे
[ मवमकिरणे प्सारूपो नवविधो नोकषाय इति मेलनतः कषायः पञ्चविंशतिविध इति भावः । मनु नवविधनोकषायस्य कथं कषायत्वमित्यत्राह वेदत्रयेति पुंस्त्रीनपुंसकेतिवेदत्रयेत्यर्थः, हास्यषट्केति, हास्यरत्यरतिभयशोकजुगुप्साषट्केत्यर्थः । कषायसहगामित्वादिति कषायेण सहैव वर्तमानत्वादित्यर्थः, दिग्दर्शनमिदं, तेन यदोषो यः कषायस्तत्सहचारिणां हास्यादीनामपि 5 तद्दोषत्वेन तत्कार्यकारित्वात्कषायत्वं तत्राप्यल्पकार्यकारित्वाच्च नोकषायत्वमितिबोध्यम् ।
चतुर्थं योगमाचष्टे
योगो मनोवाकायव्यापारः। तत्र सत्यासत्यमिश्रव्यवहारविषयकमनोवाग्व्यापारा अष्टौ, तथौदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राऽऽ
हारकाऽऽहारकमिश्रकार्मणशरीरजन्यव्यापारास्सप्तेति पञ्चदशयोगाः॥ 10 योग इति । युज्यतेऽनेनेतियोगः, तत्र यद्यपि बन्धेऽभीप्सितालब्धवस्तुलाभे मेलने
संयोगे शब्दादीनां प्रयोगे समुदायशब्दस्यावयवार्थसम्बन्धे द्रव्यतो बाह्ये मनोवाक्कायव्यापारे भावतोऽध्यवसायविशेषे च योगशब्दो वर्त्तते तथापि प्रकृतोपयोगिनं तदर्थ सूचयितुं मनोवाकायव्यापार इत्युक्तत्वान्मनोवाक्कायव्यापार एवात्र विवक्षितः । सोऽयं योगो द्विविधः,
द्रव्ययोगो भावयोगश्चेति । जीवेनागृहीतानि गृहीतानि वा स्क्यापाराप्रवृत्तानि मनोवागा15 दिद्रव्याणि द्रव्ययोगः । जीवस्य परिणामविशेषो वीर्यस्थामादिशब्दवाच्यो भावयोगः ।
अयमपि द्विधा प्रशस्तोऽप्रशस्तश्चेति । तत्र प्रशस्तस्सम्यक्त्वादिरात्मनोऽपवर्गेण योजनात्, अप्रशस्तो मिथ्यात्वादिरष्टविधकर्मभिर्योजनात् । यद्वा मनोवाक्कायप्रवर्तकानि द्रव्याणि मनोवाक्कायपरिस्पन्दात्मको योगश्च द्रव्ययोगः, एतदुभययोगहेतुरध्यवसायो भावयोगः ।
तत्र द्रव्ययोगश्शुभोऽशुभो शुभाशुभश्च व्यवहारनयमात्रापेक्षया विधिमतिक्रम्य दानादि20 वितरणचिन्तनात्मकमनोयोगस्तथैव दानादिधर्मोपदेशात्मकवाग्योगस्तथैव जिनपूजावन्दनादि
कायपरिस्पन्दात्मककाययोगश्च शुभाशुभो भवति । भावयोगस्तु शुभो वाऽशुभो वा न शुभाशुभरूपः, आगमे शुभाशुभात्मकाध्यवसायस्थानस्य तृतीयस्यानुक्तत्वात् । तदेव योगा अनुपयुक्तस्य कर्मबन्धायोपयुक्तस्य च कर्मनिर्जराकारिणो भवन्ति । सोऽयं योगः स्वरूपे
णैकोऽपि मनोवाकायलक्षणसहकारिभेदात्रिविधः, मनसा करणेन योगो मनोयोगो वाचा 25 करणेन योगो वाग्योगः कायेन करणेन योगः काययोग इति । स वीर्ययोगो वीर्यान्तराय
क्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययोऽभिसन्ध्यनभिसन्धिपूर्वकत्वात्सकरणः, अकरणश्च भवति । तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोरर्थयोः केवलज्ञानं केवलदर्शनश्चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः । स च नेहाधिक्रियते वीर्या